________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. २६४।।
www.kobatirth.org
नाव इति । नावः क्षुद्रनावः पुत्रैः तृणकाष्ठनिर्मितेः कुम्भघटैः कुम्भरूपघटैः सूक्ष्मवदना वटाः कुम्भाः ते हि तरणसाधनानि न घटमात्रम् । बाहुभिः केवल बाहुभिः ॥ १९ ॥ सेति । पुण्या गङ्गास्नानादिना पूता । ध्वजिनी सेना स्वयं नतु परंप्रेरणेन । मैत्रे मुहूर्तं दिवसस्य पञ्चदशभागेषु घटिकाद्वयात्मके तृतीये मुहूर्त "द्वे तु नाड्यो मुहूर्तोऽस्त्री " इति वैजयन्ती । मुहूर्तसंख्योक्ता बृहस्पतिना - 'रौद्रः सर्पिस्तथा मैत्रः पैत्रो वासव एव च । आप्यो वैश्वस्तथा
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ १९ ॥ सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ २० ॥ आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मप्राजेशैन्द्रास्तथैव च । ऐन्द्रानो नैर्ऋतश्चैव वारुणार्यमणौ भगी । एतेऽह्नि क्रमशो ज्ञेया मुहूर्ता दशपञ्च च " इति । (पाठभेदः तस्य मैत्रनामत्वं विन्ध्य माधवीये प्रोक्तं यथा- "आर्दोौरगमित्रम घाव सुजलविश्वाभिजिद्विरिञ्चेन्द्राः । ऐन्द्राग्नमूलवरुणार्थमभगयुक्ता दिवामुहूर्ताः स्युः ॥” इति । मैत्रे मुहूर्त्ते तारिता सती प्रयागवनं ययावित्यन्वयः । घटिकापट्क एव गङ्गातरणमिति भावः। यद्वा मैत्रे प्रयागवनं ययावित्यन्वयः । तत्रातिथ्येन निरवधिकभोगला भाव मुहूर्त विशेषोक्तिः ॥ २० ॥ आश्वासयित्वेति । आश्वासयित्वा सान्त्वयित्वा । यथोपजोपं यथासुखम् । " तूष्णीमर्थे सुखे जोषम् " इति वैजयन्ती । ऋषि प्रवर्यम् ऋषिश्रेष्ठम् (पाठभेदः । आश्वासयित्वेति । महात्मा महामतिः । स्वयं खिन्नोपि अखिन्न इव पराश्वासनपरः भरतः राज्यभरणदक्षः ' भरत इति राज्यस्य भरणात्' इति सहस्रानीकवचनात्। चमूं महाजनम् । अविशेषेण आश्वासयित्वा महानायासो वो जान इति प्रियोक्तिभिः सान्त्वयित्वा यथोपजोषं यथासुखं निवेशयित्वा यत्र प्रदेशे तेषां सुखं भवति तत्र प्रदेशे तान्निवेशयित्वा । प्रवर्ष प्रकृष्टवर्षम् । बहुवयस्कमिति यावत् । "भरद्वाजो ह त्रिभिरायुर्भि कुम्भाः अधिकप्रमाणाः, घटाः न्यूनप्रमाणाः ॥ १९॥ मैने मुहूर्ते रौद्रादिषु पञ्चदशघटिकामुहूर्तेषु तृतीयो मुहूर्तः तस्मिन् । तथा चोक्तम् “रौद्रः सार्पस्तथा मैत्रः पैत्रो वासव एव च । आप्यो वैश्वस्तथा ब्रह्मा प्राजेशेन्द्राग्नमुच्यते । ऐन्द्रोथ निर्ऋतिश्चैव वारुणार्यमदेवताः। एते क्रमेण विज्ञेया मुहूर्ता दशपञ्च च ॥” इति ॥२०॥ आश्वासार्यत्वति । स० [कुम्भघटैः कुम्मानां घटा समूहो येषु मयादिषु ते तथः । घण्डादिशन्दानां वृक्षसमूहवाचकत्वं यथा तद्वाशन्दस्य करिसमूहवाचिन इतरसमूहवाचकत्वेपि न क्षतिः । या अन्ये कुनैः फली घरैः कारशिरोभिश्च तेरुः " घटस्समाधिमे देमशिरः कुण्टकटंषु च "इति विश्वः कुम्भस्स्यादित्यारम्य हिदा चेति तत्रैवर्विपरीतं वा ॥ १९ ॥
For Private And Personal Use Only
टी.अ.क. स० ८९
॥२६४ ॥