________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
तरणप्रदेशम् । अवगाहता नावारोहणार्थमहमहमिकया आगच्छतामित्यर्थः । सानं कुर्वतामिति वा । भाण्डानि उपकरणानि । आददानानां मदीयमिदंला मदीयमिदमिति त्वरया स्वीकुर्वतां जनानाम् । घोषत्रिदिवमस्पृशत् महान् घोषो जात इत्यर्थः ॥ १४॥ पताकिन्य इति । पताकिन्यः वाय्वाकर्षणाय । कृतपताकाः स्वयं संपेतुः आशुगत्वेन दाशाधिष्ठानमात्रेणानायासेन जग्मुरित्यर्थः ॥ १५॥ सम्प्रति ता नावः कीदृग्विधा इत्यपेक्षायामाह-नारीणामि
पवाकिन्यस्तु तानावःस्वयं दाशैरधिष्ठिताः। वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः॥ १५॥ नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ १६ ॥ ताःस्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ १७ ॥
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः। तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ १८॥ त्यादि । नारीणामभिपूर्णाः नारीभिरभिपूर्णाः । वाजिनामभिपूर्णाः आरोहणाईवाजिभिरभिपूर्णाः । दनः पूर्ण इति महाभाष्यकारवचनप्रामाण्यात पूर्ण शब्दयोगे "पूरणगुण-" इत्यादिना षष्ठी तृतीयाथै षष्टी वा । यानयुग्यं यानानि रथशकटादीनि युग्यानि अश्वतरबलीवदीनि । “सर्वो द्वन्दो विभा षयकवद्भवति" इत्येकवद्भावः । महाधनं बहुमूल्यम् । “बहुमूल्यं महाधनम्" इत्यमरः॥१६॥ ता इति । काण्डचित्राणि काण्डे वारिणि चित्राणि चित्र गमनानि क्रियन्ते अक्रियन्त । " काण्डोऽस्त्री दण्डवाणावर्गावसरवारिषु" इत्यमरः । दाशबन्धुभिः दाशाभासः दाशस्य ग्रहस्य बन्धुभिरिति वा भाराभावकृतलाघवातिशयेन निवर्तनकालिकदाशलीलोच्यते॥१७॥ सवैजयन्ता इति । सबैजयन्ताः सपताका सगृहा वा। राजानो हि गजोपार गृहाणि निर्माय गच्छन्ति । तरन्तः प्लवन्तः “तृ प्लवनतरणयोः" । सधजाः सगमनाः "ध्वज गतौ " जङ्गमपर्वता इव प्रकाशन्ते इत्यर्थः ॥ १८॥ ॥ नारीणामिति । नारीणामभिपूर्णाः नारीभिरभिपूर्णाः। वाजिनाम् आरोहणाईवाजिभिरभिपूर्णाः । यानयुग्यं यानानि स्थशकटादीनि, युग्यानि अश्वाश्वतरवलीवर्दा दीनि च यानयुग्यम् । महाधनं बहुमूल्यम् ॥ १६ ॥ ताः स्मेति । ताः नावः । तं जनम् अवरोप्य निवृत्ताः । दाशबन्धुभिः दाशश्रेष्ठैः । काण्डचित्राणि काण्डे वारिणि चित्राणि विचित्रगमनानि क्रियन्ते निवृत्तिसमये भारावरोपणलधुत्वजनितेन सौकर्येण विचित्रगतिसहितं दाशैरानीयन्तेत्यर्थः । “ काण्डोऽखी दण्डवाणार्वM वर्गावसरवारिषु" इत्यमरः । काण्डचित्रा इति पाठः ॥ १७ ॥ सवेजयन्ताः सपताकाः ॥ १८॥
For Private And Personal Use Only