________________
Shri Maha
Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
व्युष्येति । व्युष्य उषित्वा । रात्रि रात्रौ। तत्रैव यत्र रामोऽशयिष्ट तत्रैव । काल्यं प्रत्यूषः। “प्रत्यूषोऽहर्मुखं काल्यम्" इत्यमरः । तस्मिन्नित्यर्थः ॥३॥ शत्रुघ्रति । शत्रुघ्न भद्रं त इति सान्त्वोक्तिः । वाहिनीं गङ्गाम् । अस्मानित्यर्थसिद्धम् ॥ २॥ जागर्मीति । नाई स्वपिमि जागर्मीति भात्रा प्रचोदितः।
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः। भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ १॥ शत्रुघ्रोत्तिष्ठ किं शेषे निषादाधिपति गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥२॥ जागर्मि नाहं स्वपिमि तमेवार्य विचि न्तयन् । इत्येवमब्रवीदभ्रात्रा शत्रुनोपि प्रचोदितः ॥३॥ इलि संवदतोरेवमन्योन्यं नरसिंहयोः। आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥४॥ कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् । कच्चित्तेसहसैन्यस्य तावत्सर्व मनामयम् ॥५॥ गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्॥६॥ सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ ७॥ ततो गुहः संत्व रितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८॥ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः
सदा। नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ ९॥ शत्रुनोपि तमेवार्य यस्त्वया चिन्त्यते तमेवार्य विचिन्तयन् सन् अहमपि जागर्मि न स्वपिमि इत्येवमब्रवीत् । तथैवेतिपाठे-यथा स्वं तथैवाइमार्य विचिन्तयन्नित्यर्थः । चरमपर्वनिष्ठस्य प्रथमपर्वाभिनिवेशस्तत्प्रीत्यर्थतयेति व्यञ्जितम् । तदवस्य तु भरतं शवनोऽनन्तरस्थितः' इतिहि पूर्वमप्युक्तम् ॥३॥इतीति । संवदतोः सतो काले गमनोचितकाले ॥४॥ कच्चिदिति । शर्वरी तावत् शवयों साकल्येन । “ यावत्तावञ्च साकल्ये" इत्यमरः । सहसैन्यस्य ते सेनासहितस्य तव । सर्वमुपकरणम् अनामयं निरुपद्रवम् ॥५॥ गुहस्येति । रामस्यानुवशः रामायत्तः॥६॥ सुखेति । सुखा सुखावहा, जातेतिशेषः । राजनिति रामभक्ततया स्तौति । ते त्वया ॥७॥ तत इति । प्रतिप्रविश्य पुनः प्रविश्य ॥८॥ उत्तिष्ठतेति । प्रबुध्यध्वम्
उत्तिष्ठतेति क्रमः । तारयिष्यामेत्यत्र विसर्गलोप आपः । तारयिष्यामीति च पाठः॥९॥ IM-१-१०॥
For Private And Personal Use Only