________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
క్కా
पा.रा.भू.
टी.अ.को.
१२६२॥
न्यनामाप
रक्षकाणां रामपारखश्येन तैरबद्धाः हयद्विपाः यस्यास्ताम् । अपावृतानि अपिहितानि पुरद्वाराणि यस्यास्ताम् । अप्रहृष्टबलत्वमरक्षितत्वे हेतुः।। न्यूनां साधनविहीनाम् । विषमस्थां दुर्दशापनाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते अभिभवितुं न स्मरन्ति । भक्षान् अपूपादीन । विषैः विष
अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् । शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव ॥ २५ ॥ अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥२६॥ तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने । तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति॥२७॥ वसन्तं भ्रातुराय शत्रुनो माऽनुवत्स्यति।लक्ष्मणेन सह त्वार्यो ह्ययोध्या पालयिष्यति ॥२८॥ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः । अपि म स्वताः कुर्यु रिमं सत्यं मनोरथम् ॥ २९ ॥ प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकार यदि नाभिपत्स्यते । ततोऽनुवत्स्यामि
चिराय राघवं वने वसन्नाहंति मामुपेक्षितुम् ॥३०॥ इत्या०वाल्मी०श्रीमदयोध्याकाण्डे अष्टाशीतितमः सर्गः॥८८॥ मित्रैः कृतान् ॥ २४ ॥२५॥ उक्तसर्वानर्थस्य आत्ममूलकतया तत्प्रायश्चित्तमाह-अयेत्यादिशोकद्वयमेकान्वयम् । तं प्रतिश्रव तां प्रतिज्ञाम् । आमुच्य। स्वस्मिन्नासज्य । तस्यार्थ रामार्थमित्यर्थः। उत्तरं कालं चतुर्दशवर्षात्मके काले रामानुष्ठितव्यतिरिक्तोत्तरकाळं वने वत्स्यामि। मिथ्या न भविष्यति, प्रति ज्ञति शेषः ॥२६-२८॥ अभिषेक्ष्यन्तीति । देवताः इमं मनोरथं सत्यं कुर्युरपि । सम्भावसायामपिशब्दः ॥२९॥ प्रसाद्यमान इति । शिरसा प्रणाम पूर्वकं स्वयं न तु मन्त्रिमुखेन । नाभिपत्स्यते नाङ्गीकरिष्यति, प्रसादमिति शेषः । ततस्तदा वने वसन् राघवमनुवत्स्यामि तदनुचरो भवामि । अनु। चरणं वा कथमङ्गीकरिष्यतीत्यत्राह नाईति मामुपेक्षितुमिति । मां भ्रातरं शिष्यं दासमित्यर्थः ॥ ३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पाताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाशीतितमः सर्गः॥८८॥ संवरणारक्षा विहीनमाकाररक्षाम् । अयन्त्रितहयद्विपाम असन्नद्धाश्वगजाम् । न्यूनां साधनविहीनाम् । विषमस्था दुर्दशोपपन्नाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते नाभिभवितुं स्मरन्ति ॥ २४ ॥ २५ ॥ अद्यप्रभृतीत्यादिलोकद्वयमेकं वाक्यम् । तं प्रतिश्रवं तां प्रतिज्ञाम् रामकृतवनवासप्रतिज्ञामित्यर्थः । आमुच्या स्वस्मिन्नासज्य । तस्यार्थ रामार्थम् उत्तर कालं चतुर्दशवर्षात्मकरामानुष्ठेये व्यतिरिक्तोत्तरं कालम् । बने वत्स्यामि, अतोऽस्य रामस्य प्रतिज्ञा मिष्या न भविष्यति ॥२६२॥
॥२६-२९ ॥ प्रसाद्यमान इति । न प्रपत्स्यते नाङ्गीकरिष्यति यदि, प्रार्थनामिति शेषः ॥३०॥ इति श्रीमहे श्रीरामा०अयोध्याकाण्ड अष्टाशीतितमः सर्गः11८८॥ MI स-मनाता सर्वतः पुररक्षक रहिताम् । एतादृशीमपि विकतान्मरणशङ्कया यथा नाभिमन्यते तथा रामभिया नेशन्तीत्यर्थः ॥ २५ ॥
ని
For Private And Personal Use Only