________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
IA
वा.रा.भू. ॥२५९॥
लक्ष्मणे विषये ते त्वया एकधुवायाः, ममेति शेपः॥१०॥ स इति । परिसान्त्व्य स्वच्छडितं किमपि न भवेदिति वदन्, परिसान्त्व्येत्यर्थः ॥११॥१२॥ी ...! इति । गुहः हृष्टः रामवृत्तान्तकीर्तनस्यावकाशो लब्ध इति सञ्जातहपः सन् । रामे यद्विधं यादृशम् उपचारादिकम् । प्रतिपेदे अकरोदिति यावत्। तद
१०८७ समुहर्त समाश्वस्य रुदन्नेव महायशाः। कौसल्या परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥११॥ भ्राता मे क्वावसद्रात्रौ क सीता क च लक्ष्मणः । अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ १२॥ सोऽब्रवीद्भरतं हृष्टो निषादाधि पतिर्मुहः । यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १३ ॥ अत्रमुच्चावचं भक्षाः फलानि विविधानि च । रामा याभ्यवहारार्थ बहु चोपहृतं मया ॥१४॥ तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः । न तु तत्प्रत्यगृहात् स क्षत्रधर्म
मनुस्मरन् ॥ १५॥ न ह्यस्माभिः प्रतिग्राह्य सखे देयं तु सर्वदा । इति तेन वयं राजन्ननुनीता महात्मना ॥६॥ ब्रवीत् । चकारेण रामकृतं समुच्चीयते ॥ १३ ॥ अन्नमिति । उच्चावचं नानाविधमित्यर्थः । भक्षाः भक्षणीयानि अपूपादीनि । अभ्यवहारार्थ भोजनार्थ | बहु चेति अन्यच्च बहुचोष्यलेह्यादिकमुपाहृतम् ॥१४॥ तत्सर्वमिति । रामः तन्न प्रत्यगृह्णात्, किन्तु तत्सर्व प्रत्यनुज्ञासीत् प्रत्यन्वज्ञासीत्, पुनर्नीयता मित्यनुज्ञातवान् । क्षत्रधर्म दानमेव क्षत्रधर्मः न त्वादानमिति । अत्र हीनजातिपरिग्रहत्वात्तत्प्रत्याख्यानम् ऋषिभ्यस्तु स्वीकरिष्यतीत्याहुः॥ १५॥ प्रत्यनुज्ञाने हेतुमाह-नेत्यादिना । इत्यनुनीता वयमित्यनेन स्वाचिभक्ताग्रेसरगुहसमर्पितफलादेर्भक्तिपूतत्वेन शबरीविदुरादिन्यायेन परमभागवत तया स्वीकार्यत्वेपि स्वप्रियतमपितृमातृप्रमुखबहुजनविश्लेषदुःखप्रारभारानुभवजनितवैमनस्येन पुण्यनदीतीरे उपवासचिकीर्षया च गुहसमार्पतं न स इति । परिसान्त्व्य त्वच्छङ्कितं किमपि नास्तीत्याश्चास्य ॥ ११॥ १२ ॥ सोऽब्रवीदिति । गुहः हृष्टः रामवृत्तान्तकीर्तनेन स्वावकाशो लब्ध इति सञ्जातहर्षस्सन रामे यद्विधं यादृशमुपचारं प्रतिपेदे अकरोदित्यर्थः । तदब्रवीत् । चकारेण रामकृतं समुञ्चीयते ॥ १३ ॥ १४ ॥ तत्सर्वमिति । रामस्तन प्रत्यगृहात् किन्तु तत्सर्व प्रत्यनुज्ञासीत् प्रत्यर्पयामास ॥ १५॥ १६ ॥
स-प्रत्यनुज्ञासीत् दृष्टया स्वीकृत्य मह्यं दत्तवान् । अत्रधर्म वन्येनैव वनवासं करिष इति प्रतिज्ञापालनरुपः प्रतिषहरूप या ! प्रथमपो उत्तरओके स्वाभिप्रेतं निगृह्य प्रकारान्तरेण परिहारः कृत इति ध्येयम् । अत एवानुनीता इत्यत्रासन्धिः ॥ १५॥
R॥२५॥
For Private And Personal Use Only