________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रहस्येति । यत्र तत्रैव यत्र क्षणे अप्रियं श्रुतं तत्रैवेत्यर्थः । यद्वा यत्र विषये अप्रियं श्रुतं तत्रैव ध्यानं जगाम स्वाभिलषितकार्यसङ्कटं जातमिति चिन्ता पारवश्यं प्राप्त इत्यर्थः॥१॥ सुकुमारइत्यादिश्लोकद्वयमेकान्वयम् । प्रत्याश्वस्य मुहूर्त कालं परमदुर्मनाः सन् सहसा पपात । ससादेतिवा पाठ सुकुमार इत्यादिना तदवस्थानईत्वमुच्यते ॥२॥३॥ तदवस्थमिति । अनन्तरस्थितः निरन्तरं समीपे स्थितः ॥४॥५॥ता इति । अनुसृत्य समीपं
गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानं जगाम तत्रैव यत्र तच्छुतमप्रियम् ॥ १॥ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः । पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥२॥ प्रत्याश्वस्य मुहूर्त तु कालं परमदुर्मनाः। पपात सहसा तो!ीतिविद्ध इव द्विपः ॥३॥ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः। परिष्वज्य सरोदोच्चैर्विसंज्ञः शोककर्शितः॥४॥ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः। उपवासकृशा दीना भर्तुळसनकर्शिताः॥५॥ ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥६॥ वत्सला स्वं यथा वत्समुपगृह्य तपस्विनी। परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ ७॥ पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते। अद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥८॥ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृ गते । वृत्ते दशरथे राशि
नाथ एकस्त्वमद्य नः॥९॥ कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् । पुत्रे वा ह्येकपुत्रायाः सहभायें वनं गते॥१०॥ प्राप्य ॥६॥ वत्सलेति । उपगूह्य परिष्वज्य ॥७॥ पुत्रेति । नहि भरतस्य व्याधिश्चातुर्थिकः, अपितु रामविरह एव । रामविरहः ते शरीरं बाधते | कचिदित्यर्थः। अद्येति रामो वनं गतः चक्रवर्ती तु संस्थितः। अतस्त्वमेवेदानीमस्माकं रक्षक इति नार्थः, किन्तु रामे भवतो मुखवैवण्य दृष्ट्वा न पुनरनागतो भवेत्, अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवामः । भवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकयेत् ॥ ८॥९॥ कच्चिदिति ।। गुहस्येति । ध्यानं जगाम स्वाभिलषितकार्यसङ्कट जातमिति चिन्ता प्रापेत्यर्थः ॥१॥ सुकुमार इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रत्याश्वस्य मुहूर्नकालं परमदुर्मनाः सन् सहसा पपात । ससादेति वा पाठः ॥ २ ॥ ३॥ तदवस्थमिति । अनन्तरस्थितः आसन्नस्थितः।।४-९॥ कचिदिति । एकपुत्रायाः ममेति शेषः॥१०॥
For Private And Personal Use Only