________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.रा.भू.अतीतम्, मृतमिति यावत् ॥ १८॥ रम्येत्यादि । हर्म्यप्रासादसम्पन्नां हर्म्याणि धनिनां गृहाणि, प्रासादा देवानां राज्ञां च गृहाणि तैः सम्पन्नां समृद्धाम् । सर्व ॥२५८॥ ॐ रत्नविभूषितां सर्वैः श्रेष्ठवस्तुभिरलंकृताम् । तूर्यनादविनादितां तूर्यस्य नृत्यगीतादिकस्य नादेन विनादिताम्, हम्र्म्यादिषु कृतप्रतिध्वनिमित्यर्थः । सर्व रम्यचत्वर संस्थानां सुविभक्तमहापथाम् । हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥ १९ ॥ गजाश्वरथसम्बाधां तूर्य नादविनादिताम् । सर्वकल्याणसम्पूर्णी हृष्टपुष्टजनाकुलाम् ॥२०॥ आरामोद्यान सम्पूर्णी समाजोत्सवशालिनीम् । सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २१ ॥ अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् । निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ २२ ॥ परिदेवयमानस्य तस्यैवं सुमहात्मनः । तिष्ठतो राजपुत्रस्य शर्वरी साऽत्य वर्त्तत ॥ २३ ॥ प्रभाते विमले सूर्ये कारयित्वा जटावुभौ । अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ २४ ॥ जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुअरयूथपोपमौ । वरेषुचापासिध परन्तपो व्यवेक्षमाणौ सह सीतया गतौ ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥ कल्याणैः सर्वमङ्गलैः सम्पूर्णा सर्वोत्सवैः सम्पूर्णा वा । आरामोद्यानसम्पूर्णाम् आरामाः उपवनानि उद्यानानि राज्ञामसाधारणवनानि तैः समृद्धाम् । समा जोत्सवशालिनीम् उत्सवसमूहशालिनीम् ॥ १९-२१ ॥ अपीति । सत्यप्रतिज्ञेन तीर्णवनवासप्रतिज्ञेन रामेण । प्रविशेमहि, पुरीमिति शेषः ॥२२॥ परि देवयमानस्येति । तिष्ठतो राजपुत्रस्य राजपुत्रसम्बन्धिनी शर्वरी । अत्यवर्त्तत निरन्तरपरिदेवनेन रात्रिं यापितवानित्यर्थः ॥ २३ ॥२४॥ जटाधराविति । व्यवेक्षमाणौ सर्वतो दत्तावधानौ ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता• अयोध्यकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥ प्रयोजनमतीत्य गतं व्यर्थं गतमित्यर्थः ॥ १७ ॥ १८ ॥ रम्येत्यादिश्लोकत्रयमेकं वाक्यम् । हर्म्याणि धनिनां गृहाणि प्रासादाः देवानां राज्ञां च गृहाणि आरामा उपवनानि, उद्यानानि राजसाधारणवनानि । समाजोत्सव शालिनी उत्सवसमूहशालिनीमित्यर्थः ॥ १९-२१ ॥ अपीति । सत्यप्रतिज्ञेन रामेण ॥ २२ ॥ परीति । परिदेवयमानस्य राजपुत्रस्य सतः शर्वरी अत्यवर्तत निरन्तरपरिदेवनेन रात्रिर्यातेत्यर्थः ॥ २३ ॥ प्रभात इति । प्रभाते सूर्ये विमले सति अस्मिन् भागीरथीतीरे जटाः कारयित्वा स्थितावुभौ सुखं मया सन्तारितौ गङ्गामिति शेषः ॥ २४ ॥ जटेति । व्यपेक्षमाणौ निरपेक्षावित्यर्थः ॥ २५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् षडशीतितमः सर्गः ॥ ८६ ॥
For Private And Personal Use Only
टी.अ.क. स० ८६
॥२५८॥