________________
Acharya Shri Kalassagarsun Gyarmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
चा.रा.भ.
॥२५७॥
विभागो नास्ति। देशिका वक्तारः सादरा श्रोतार इत्याह । आङीषदथे। खवागिन्द्रियविषयमेवावदत नतु कात्स्न्न । अथभरतस्वभावज्ञानानन्तरम् ।।टी.अ.का. सद्भाव 'बाल्यात्प्रभृति सुस्निग्धः' इति सत्ताव्याप्तं स्वभावम् । लक्ष्मणस्य महात्मनः। पयोधि पाणिना परिच्छेत्तुमुद्युक्तः भरतायाप्रमेयाय एतादृशस्योपदे
तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् । भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम् ॥ २ ॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसि हिशेष्वास्यां सुखं राघवनन्दन ॥३॥ उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः। धर्मात्मस्तस्य गुप्त्यर्थ जागरिष्यामहे वयम् ॥ ४॥ नहि रामात् प्रियतरो ममास्ति भुवि कश्चन । मोत्सुकोभूर्जवीम्येतदप्यसत्यं तवाग्रतः ॥५॥ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः । धर्मावाप्तिं च विपुलामावाप्तिं च केवलाम् ॥६॥ सोऽहं प्रियसखं रामं शयानं सह सीतया । रक्षिष्यामि धनुष्पाणिः सर्वेः
स्वैातिभिःसह॥७॥नहि मेऽविदितं किञ्चिदनेऽस्मिश्चरतः सदा।चतुरङ्ग ह्यपि बलं प्रसहेम वयं युधि ॥ ८॥ ऐति नास्ति, गुहो गहनगोचरः वन्यवृक्षादितारतम्यमात्रज्ञः एतादृशस्वभावमविज्ञातवान् । यद्वा रामविरहेण कुत्रचित् कुजे स्थितः तदेशीयागमनेसमु। त्थाय निर्गतः॥३॥ भरतस्य रामविषयनेहमभिवर्द्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाइ-तं जाग्रतमित्यादिना । भ्रातृगुप्त्यर्थम् अत्यन्तं जाग्रतं शरचापासिधारिणम् एकहस्ते शरयुक्तचापम् अपरहस्ते असि च दधानमित्यर्थः । गुणेशातृभक्त्यादिगुणयुक्तम् ॥२॥३॥ उचित इति । तस्य रामस्य ॥ ४॥ नहीति । मोत्सुकोभूः अस्यां रात्रौ रामरक्षणौत्सुक्यं मा कृथा इत्यर्थः। एतद्रक्षणं प्रति तवाग्रतः असत्यं वीम्यपि ब्रवीमि किम् ? न वीम्यवेत्यर्थः ॥५॥ स्वस्यैहिकमामुष्मिकं च फलं रामायत्तमित्याह-अस्येत्यादिना । धर्मावाप्तिम् आमुष्मिकफलसाधनसिद्धिम् केवला न्यायप्राप्ता मितियावत् ॥६॥ तनि०-केवलां प्रतिबन्धरहितों धर्मावानि फलाभिसन्धिरहितां मोक्षपर्यन्ताम् । अर्थावाप्ति स्वर्गादिपुरुषार्थनानिम् । अस्मिन् लोके सुमहद्यशः ऐहिक पुरुषार्थ महाभागवतत्वप्रयुक्तप्रसिद्धिं वा । अस्य रामस्य प्रसादात् आशंसे प्रार्थये ॥६॥७॥ नेति । मेविदितमित्यत्र अविदितमिति पदच्छेदः॥८-११॥ ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् ॥ १-३॥ उचित इति । तस्य रामस्य । तव गुप्त्यार्थमिति पाठे-तत्कृता या रामगुप्तिः तदर्थम् ॥ ४ ॥ नहीति । रामादन्यः प्रिय २५७॥ तरो भुवि नास्ति । मोत्सुकोभूः उत्सुको माभूः । अस्मिन्नर्थे विस्मयं मागाः । इदमसत्यमत आह प्रवीम्येतदिति । रामं रक्षिष्यामीत्येतद्वचनं तवाग्रतः असत्यं बवीम्यपि असत्यं ब्रवीमि किम् ? न प्रवीम्येवेत्यर्थः ॥ ५॥ स्वस्यैहिकामुभिकफलं रामावत्तमित्याह-अस्येति । धर्मावाप्तिम् आमुष्मिकफलसाधनभूताम् । अस्य
For Private And Personal Use Only