________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
-
शृङ्गवता दृढत्वसाम्यात् । प्रमोहानन्तसत्त्वेन प्रमोहा एव अनन्तानि सत्त्वानि जन्तवो यस्मिन् तेन । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । प्राणभयशङ्काकरत्वात् । सन्तापौषधिवेणुना सन्तापा एव ओषधयो वेणवश्च यस्मिन् तेन । ओषधिवेणुसाम्यं दुष्प्रवेशत्वात् । आक्रान्तः
विनिःश्वसन वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः। शमं न लेभे हृदयज्वरादितो नरर्षभो यूथगतो यथ र्षभः ॥२३॥ गुहेन सार्द्ध भरतः समागतो महानुभावः सजनः समाहितः। सुदुर्मनास्तं भरतं तदा पुनर्गुहः समा श्वासयदग्रजप्रति ॥२२॥ इत्याचे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे पञ्चाशीतितमः सर्गः॥ ८५॥
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय गुहो गहनगोचरः॥१॥ अभूदितिशेषः । महता अतिगुरुणा । मजतेतिपाठे-मजता अवयवेषु प्रविशता ॥ १९॥२०॥ विनिःश्वसन्निति । विनिःश्वसन् चिन्तादिरेकेण श्वास कुर्वन् । भृशदुर्मनाः अत्यन्तकलुषहृदयः प्रमूढा नष्टा संज्ञा यस्य सः प्रमूढसंज्ञः । अतएव परमापदं मरणायार्थसम्पत्तिरूपां मूर्छा गतः । शर्मा ज्वरशान्तिम् । अयूथगतः यूथाद्रष्ट इत्यर्थः । यूथहत इतिपाठे-हतयूथ इत्यर्थः ॥२१॥ अथ गुहः समागत इत्याह-गुहेनेति । सजनः सपरिवारः ।। समाहितः एकाग्रचित्तः। भरतःगुहेन साढे सह समागतः सङ्गतः। अथ गुहः सुदुर्मनाः भरतकेशदर्शनेन भरतादपिभृशं दुर्मनाः सन् । भरतम्स अग्रज प्रति अग्रज लक्षीकृत्य समाश्वासयत् ॥२२॥ इति श्रीगो श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥८५॥ आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भाव ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातन मेव निर्दरशलं यस्मिन् तेन । शोकायासाधिशृङ्गिणा शोकश्च आयासश्च आधिश्च ता एव शृङ्गाणि यस्मिन् तेन । प्रमोहानन्तसत्त्वेन प्रमोह पवानन्तसत्त्वानि जन्तवो यस्मिन् । सन्तापौषधिवेणुना सन्ताप एवोषधयश्च वेणवो यस्मिन् । मजता अवयवेषु प्रविशता दुःखशैलेन दुखरूपपर्वतेन आक्रान्तः, अभूदितिशेषः । महतेति वा पाठः ॥ १९ ॥ २०॥ विनिःश्वसन्निति । यूधहतः हतयूधः । यूथगत इति पाठे-यूथानिर्गत इत्यर्थः ॥२१॥ गुहेनेति । समाहितः एकाग्रचित्तः। सजनः सपरिचारः। अग्रज प्रति समागतो भरतः । गुहेन साध सुदुर्मनाः सुदुःखितः, अभूदिति शेषः । तं भरतम् । गुहः पुनः गुहस्तु तदा समाश्वासयदिति सम्बन्धः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणातत्वदीपिका अयोध्याकाण्डव्याख्यायां पञ्चाशीतितमः सर्गः ॥८५ ॥ आचचक्ष इति । अथ आश्वासानन्तरम् । सद्भाव
For Private And Personal Use Only