________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.ग.भ.
॥२३॥
तस्मादिति । अद्यप्रभृति एतदहरारभ्य निशा उपवरूनव्या। "वरश्यर्थस्य प्रतिषेधो वक्तव्यः" इति भोजननिवृत्त्यर्थस्य वसेरकर्मकत्वादव सकर्मकत्व टी.अ.का. पामार्षम् । निशायामुपवस्तव्यमित्यर्थः । दर्भप्रस्तरो दास्तरणम् ॥२३॥ सुहृद इति । एवंविधानि अभिपेकादिमहाश्रेयोरूपाणि ॥२४॥ केकयराजाय। राज्यशुल्कं दत्त्वा कैकेयीविवाहं कृतवान्, तं वृत्तान्तं दृदिकृत्वाह-विप्रोषित इति । अयं वृत्तान्तः सप्तोत्तरशततमे सगें “पुरा भ्रातः पिता नः स मातरं ।
तस्मात्त्वयाद्यप्रभृति निशेयं नियतात्मना । सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२३॥ सुहृदश्चाप्रमत्तास्त्वां रक्ष न्त्वद्य समन्ततः। भवन्ति बहुविनानि कार्याण्येवंविधानि हि॥२४॥ विप्रोषितश्च भरतोयावदेव पुरादितः।तावदेवा भिषेकस्ते प्राप्तकालो मतो मम ॥२५॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः। जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो
जितेन्द्रियः ॥२६॥ किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः। सतां तु धर्मनित्यानां कृतशोभिच राघव ॥२७॥ ते समुद्रहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥” इति स्पष्टीभविष्यति । प्राप्तकाल इत्यत्रेतिकरणं द्रष्टव्यम् ॥ २५ ॥ काममिति । वृत्ते ।
आचारे ॥२६॥ अत्यन्तधामष्टानामपि चेतश्चञ्चलत्वात् । मित्रभेदादिनान्यथा भवतीत्याह किन्विति । किन्तु तथापीत्यर्थः । यद्यपि “काम खलु जासतां वृत्ते” इत्यायुक्तगुणविशिष्टतया स न शङ्कास्पदीभूतः, तथापि मनुष्याणां मनुष्यत्वसाधरण्येन शङ्कितं चित्तम् अनित्यं चञ्चलमिति मे"
मतिः, मम निश्चयइत्यर्थः। सामान्यप्रयुक्तदोषो विशेपे न संक्रमत इत्याद सतां विति। तुशब्दः पक्षव्यावृत्त्यर्थः । धमनित्यानां धर्मकनिरताना कृतशोभि कृतेन परस्परोपकारेण शोभते नतु भेदं प्राप्नोति । राघव रघुवंशोत्पन्नस्त्वं स्ववंशप्रभावं न जानासि किम् ? अन्ये त्वेवं व्याचक्षते-धर्म, तस्मादिति । वध्वा सह सीतया सह । उपवस्तव्यम् उपोप्य, निशायामुपवस्तव्यामित्यर्थः ॥ २३ ॥ सुहृद इति । एवंविधानि शुभोदर्काणि ॥ २४ ॥ केकयराजाय । राज्यशुल्कं दत्त्वा दशरथः कैकेयीविवाहं कृतवान, तं वृत्तान्तं हृदि कृत्वाह-विप्रोषित इति । यद्वा भरतस्य साधुवृत्तं जाननपि तद्यावदेव मे चेतः' इत्यादिना रामस्नेहाद्राजा यथा स्वचित्तमपि शङ्कितवान् तथैव भरतचित्तमपि शकते विप्रोषित इति ॥ २५ ॥ ननु सद्गुणविशिष्टे भरते नैवं शङ्का युक्ता इत्यत आह काम मिति ॥२६॥ तथापि मनुष्याणां चलचित्ततया भरतेपि राज्यलोभो भवेदिति मे मतिः। अनित्यं चचलम् । नन्वसन्मनुष्याणमिव चित्तं चञ्चलम् न तुसतामित्याशङ्कया परबोधनादिना सतामपि चित्तस्य चाचल्यप्राप्तिः सम्भावितेत्याह सतां चेति । धर्मनित्यानां धर्मनिरनानाम् । कृतशोभि कृतेन परकृतमित्रभेदादिना शोभितुं शील मस्यास्तीति कृतशोभि । यद्वा कृतशोभि कृतेनैव कार्येण शोभि, न तु करिप्यमाणेन । अयं भावा-बदिदानीमेव रामाभिषेकः क्रियते तहि भरतचित्तस्यापि
For Private And Personal Use Only