________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
न किञ्चिदिति ॥१५॥ अद्यति । स्पष्टम् ॥ १६॥ अपि चेति । अशुभान अशुभसूचकान् । दारुणान् भयङ्करान् । नीलवर्णस्त्रीपरिष्वङ्गादीन् । उल्का । निर्गतज्वालानिर्घातः अमेघाशनिः॥१७॥अवष्टब्धमिति। नक्षत्र जन्मनक्षत्रम् । अवष्टब्धम् आक्रान्तम् । अत्रेतिकरणं द्रष्टव्यम् । देवज्ञाः ज्योतिषिकाः। “सांवत्सरो ज्योतिपिको देवज्ञगणकावपि" इत्यमरः । सूर्याङ्गारकराहुभिः अहेरवष्टब्धमित्यावेदयन्तीति सम्बन्धः॥१८॥ दुनिमित्तफलमाह-प्रायेणेति ।।
न किञ्चिन्मम कर्त्तव्यं तवान्यत्राभिषेचनात् । अतो यत्त्वामहं बयां तन्मे त्वं कर्तुमर्हसि ॥ १५॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् । अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ १६ ॥ अपि चाद्याशुभान राम स्वप्ने पश्यामि दारुणान् । सनिर्धातादिवोल्का च पततीह महास्वना ॥ १७ ॥ अवष्टब्धं च मे राम नक्षत्रं दारुणे ग्रंहैः । आवेदयन्ति दैवज्ञाः मूर्याङ्गारकराहुभिः॥ १८॥ प्रायेण हि निमित्तानामीदृशानां समुद्भवे। राजा हि मृत्युमाप्नोति घोरां वापदमृच्छति ॥ १९॥ तद्यावदेव मे चेतो न विमुञ्चति राघव । तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२०॥ अद्य चन्द्रोभ्युपगतः पुष्यात् पूर्व पुनर्वसू । श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैव चिन्तकाः ॥२१॥ ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् । श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२२॥ ऋच्छति ऋच्छतिवेत्यर्थः ॥ १९॥ तदिति । चेतः त्वामभिषेक्ष्यामीति बुद्धिः। न विमुञ्चति मामितिशेषः । कुतो बुद्धिविमोचनप्रसक्तिरित्यत्राह चला हीति । मावन्तरादिप्रार्थनादिभिरिति भावः ॥२०॥ अद्यति । पुष्ययोगं पुष्येण चन्द्रस्य योगम् । नियतं अभिषेकनियतम्, प्रशस्तमित्यर्थः । देव । चिन्तकाः ग्रहचारज्ञाः । वक्ष्यन्ते वदन्ति ॥२१॥ तत इति । अभिपिश्चस्व अभिषिक्तो भव । त्वरयतीवेतीवशब्द एवकारार्थः ॥२२॥ तवाभिषेचन विना मम कर्तव्यं किमपि नेति भावः ॥१५॥१६॥ अपिचेति । अशुभानशुभसूचकानुत्पातान्, सनिर्घाता अशनिपातसहिता उल्कानिर्गतज्वाला। दिशोल्केति सन्धिराः । दिवः अन्तरिक्षात् पतति ॥ १७ ॥ अवष्टब्धम् आक्रान्तम् । देवज्ञाः ज्योतिर्विदः ॥ १८॥ १९ ॥ तदिति । ततस्माद्यावदेव मे चेतो न विमुह्यति त्वामभिषेक्ष्यामीत्येवंविधा बुद्धिर्यावन्नोपैति तावदेवाभिषिञ्चस्व अभिषिक्तो भव ॥ २० ॥ अद्येति । पुनर्वसू तन्नामकं नक्षत्रम् । पुष्ययोगं चन्द्रस्य पुष्य योग, नियतम् अभिषेकनियतम्, प्रशस्तमित्यर्थः । देवचिन्तकाः अहसारज्ञाः, वक्ष्यन्ते बदन्तीत्यर्थः ॥२१॥ तत इति । अभिषिञ्चस्व अभिषिक्तो भव ॥ २२॥
For Private And Personal Use Only