SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रा.म. ॥२२॥ कर्ता, शीघ्रं गच्छेत्यर्थः । इतरशब्दस्य सर्वनामकार्याभाव आर्षः ॥ ७-९॥ प्रविशन्निति । राघवः पितुर्भवनं प्रविशन्नेव दूरात्प्रणिपत्य कृताञ्जलिः सन् , टी.अ.का. पितरं ददर्श । दूरात्प्रणिपातो विनयातिशयात् ॥१०॥ प्रणमन्तमिति । समीपे पुनः प्रणमन्तमित्यर्थः ॥ ११॥ रामेति । वृद्धोस्मीत्यनन्तरं दीपायु .४ शारिति वृद्धत्वविवरणम् । यद्वा ज्ञानवृद्धत्वव्यावृत्तये दीर्घायुरिति । “विधिहीनमसृष्टान्न मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥" तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः । प्रवेशयामास गृहं विवाः प्रियमुत्तमम् ॥ ९॥ प्रविशन्नेव च श्रीमान राघवो भवनं पितुः । ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः॥१०॥ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः। प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ ११ ॥ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः। अन्नवद्भिः ऋतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ १२॥ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि । दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ १३ ॥ अनुभूतानि चेष्टानि मया वीर सुखान्यपि। देवर्षिपितृविप्राणामनृणोस्मि तथात्मनः ॥१४॥ इत्यन्नादिहीनस्य यज्ञस्य निन्दनादनवद्भिरित्यादिविशेषणम् । ऋतुशतैः ज्योतिष्योमाद्यश्वमेधपर्यन्तयागभेदैः । इष्टं यजनं कृतम् ॥ १२ ॥ जातमिति । इष्टमपत्यम् अभिमतमपत्यम् । इष्टं दत्तम् अभिमतं वस्तु दत्तम् ।। १३॥ देवर्षीति । देवानामनृणः क्रतुशतैः, ऋषीणामनृणोऽध्ययनेन, पितॄणा । मनृणोऽपत्योत्पादनेन, विप्राणामनृणो दत्तेन, आत्मनोऽनृणः सुखानुभवेन । यद्यपि ब्रह्मचर्यादि ऋणत्रयं श्रुतिसिद्धम् । "जायमानो वै ब्राह्मणस्त्रिभि ऋणवाजयते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः" इति । तथापि ऋणपञ्चकमिति मतान्तरम् । यद्वा ऋणत्रयव्यपदेशः प्राधान्यादित लारयोरुपलक्षणत्वाद्वा । ननु देवादीनां पञ्चानां कथमुत्तमर्णत्वम् ? अबाहुः-देवानामिन्द्रियाधिष्ठातृणां जितेन्द्रियताकारकत्वेनोपकारकत्वात, ऋषीणां वागुपकारकत्वात्, पितृणां तनूपकारकत्वात्, विप्राणां कमाधीनसर्वसंस्कारसाधनेनाघनाशकत्वात्, आत्मनः शरीरन्द्रियसङ्घातरूपस्य ज्ञानप्रकाशा हेतुत्वेनोपकारकत्वाच तदप्रत्युपकारः पुरुषस्य ऋणमेव । अन्यत्र चोक्तम्-"अनिषिद्धसुखत्यागी पशुख न संशयः" इति ॥ १४॥ रामेति । यथेष्टम्-यथावत् । तथा इष्टं कृतम् ॥ १२-१४ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy