________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं पूर्वविचारितमपि राममाहूयोक्तमपि रामाभिषेकं पुनर्मन्त्रिभिः कालविशेष निर्णयपूर्वकं राममाहूय सविशेषमुपदिशति चतुर्थे - गतेष्वित्यादिना श्लोकद्वयमेकान्वयम् । अभिषेच्य इति निश्वयं चक्र इति सम्बन्धः ॥ ३ ॥ २ ॥ अथेति । अन्तगृहमाविश्येत्यनेन मन्त्रिणामपि विसर्जनं सिद्धम् आमन्त्रयामास नियोजयामासेत्यर्थः । आनयेत्यत्र इतिकरणं दृष्टव्यम् || ३ || प्रतिगृह्येति । आनयितुं आनेतुमित्यर्थः । इडार्पः ॥ ४ ॥ द्वाःस्थैरिति ।
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः । मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥ १॥ श्व एव पुष्यो भविता वोऽभिषेच्यस्तु मे सुतः । रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २ ॥ अथान्तर्गृहमाविश्य राजा दशरथ स्तदा । सूतमामन्त्रयामास रामं पुनरिहानय ॥ ३ ॥ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ । रामस्य भवनं शीत्रं राममानयितुं पुनः ॥ ४ ॥ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः । श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वि तोऽभवत् ॥ ५ ॥ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् । यदागमनकृत्यं ते भूयस्तद्ब्रह्यशेषतः ॥ ६ ॥ तमु वाच ततः सुतो राजा त्वां द्रष्टुमिच्छति । श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ ७ ॥ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः । प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्य सुमन्त्रस्य पुनरागमनं रामाय द्वाःस्थैरावेदितम् । रामश्वापि प्राप्तमागतं सुमन्त्रं श्रुत्वैव शङ्कान्वितोऽभवत् । किमभिषेकविघ्नः कश्चिदासीत् उतान्यः कश्चिदुपप्पुवोऽभूदिति शङ्का ॥ ५ ॥ प्रवेश्येति । भूयः पुनः ते यदागमनकृत्यं तदब्रूहीति सम्बन्धः ॥ ६ ॥ तमिति । सूतः श्रुत्वा, रामवाक्यमितिशेषः । ततः रामवाक्यश्रवणानन्तरम् । राममुवाच कथमिति ? हे राम! राजा त्वां द्रष्टुमिच्छति । अत्र दशरथसमीपे । गमनाय इतराय अगमनाय च। त्वं प्रमाणं गतेष्विति । निश्चयज्ञः इदं कार्यमस्मिन्नवसरे कर्तव्यमिति निश्चयज्ञ इत्यर्थः । निश्चयं रामाभिषेकविषयनिश्चयम् ॥ १ ॥ श्व इति । ' राम्रो यौवराज्येऽभिषेच्योऽस्तु' इति निश्वयं चक्र इति पूर्वेण सम्बन्धः ॥ २ ॥ अथेति । आमन्त्रयामास आज्ञापयामास । आनयेत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ ३ ॥ ४ ॥ द्वाःस्थैरिति । तस्य सुतस्य पुनरागमनं द्वाःस्थरावेदितं विज्ञापितं सूतं प्राप्तं पुनरागतं श्रुत्वैव शङ्कान्वितोऽभवत् इदानीमेव विस्तृष्टस्य पुनरागमने किं कारणमिति विचारान्वितो ऽभवत् ॥ ५ ॥ ६ ॥ तमिति । ततः रामवाक्यश्रवणानन्तरम्। श्रुत्वा राजवाक्यमिति शेषः । इनराय आगमनाय वा त्वं प्रमाणं निर्णेता ॥ ७-११ ॥
For Private And Personal Use Only