SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कचिदिति । न दुष्टः अदुष्टः । सुप्सुपति समासः। रामस्य रामविषये अदुष्टो नसि कच्चित् दुष्टो न व्रजसि कञ्चिदिति वा सम्बन्धः । अक्लिष्टकर्मण इत्यनेन निरपायत्वमुक्तम् । शङ्काप्रसक्तौ हेतुमाह इयमिति । अनुकूलो व्रजति चेत् सेना व्यर्थेति भावः । इवशब्दः शङ्काया ईषत्त्वं द्योतयति ॥७॥ कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः। इयं ते महती सेना शङ्कां जनयतीव मे ॥७॥ तमेवमभिभाषन्तमाकाश इव निर्मलः। भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥८॥ माभूत्स कालो यत्कष्टुं न मां शङ्कितुमर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः॥९॥तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् । बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥१०॥ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् । पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥११॥ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले । अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥१२॥ शाश्वती खलु ते कीर्तिलोकाननुचरिष्यति । यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥१३॥ एवं सम्भाषमाणस्य गुहस्य भरतं तदा। बभी नष्टप्रभः सूर्यो रजनी चाभ्यवत्तेत ॥ १४॥ संनिवेश्य स तां सेनां गुहेन परितोषितः शत्रुन्नेन सह श्रीमान शयनं पुनरागमत् ॥ १५॥ तमिति । आकाश इव निर्मल इत्यनेन तच्छङ्कितदोषस्य तत्र प्रसक्तिरेख नास्तीत्युच्यते । आकाशे हि पङ्कानुलेपे स तत्र न प्रसजति किन्तु स्वहस्त एव मलिनो भवति । लक्ष्णया स्वस्मिन्दोषालेपेप्यक्रोधया ॥८॥माभूदिति । यत् यस्मिन् काले । कष्टं त्वया आशङ्कितं कष्टं जायते स कालो माभुत् । कलिकाले हि तादृशप्रसङ्गः, अतो मां शङ्गितुं नाईसि । तत्र हेतुः राघव इत्यादि । न ते कार्या त्वया न कार्या ॥ ९॥१०॥स विति । संदृष्टवदनः प्रसन्नवदन इत्यर्थः । हर्षितः सनातहर्षः ॥११॥१२॥ शाश्वतीति । कृच्छगतं व्यसनगतम् । प्रत्यानयितुं प्रत्यानेतुम् । इडापः ॥ १३॥ भएवमिति । सम्भाषमाणस्य सम्भाषमाणे सति । नष्टप्रभः अदृष्टप्रभः ॥१४॥ संनिवेश्येति । शयनं पुनरागमदिति अत्र पुनःशब्देन गुहागमनात् । पूर्व श्रान्तः शयने स्थित इति गम्यते । समुपागमदितिवा पाठः । पुनः परितोषित इति वा सम्बन्धः। वाक्यालङ्कारो वा ।। १५ ॥ कञ्चिदिति ! रामस्य दुष्टः न व्रजसि कञ्चित रामस्य द्रोहं कर्तुं न व्रजसि कञ्चिदित्यर्थः ॥ ७ ॥ ८॥ माभूदिति । यत् यस्मिन काले त्वया आशङ्कितं कष्टं रामे For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy