________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. ॥२५५॥
स०
नीवारश्यामाकप्रियंग्वादिधान्यम् ॥१७॥ आशंसे प्रार्थयामि । स्वाशिता सुप्ठ भोजिता ॥ १८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे टी.अ.का. पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥८॥ एवमिति । हेत्वर्थसंहितम् उपपत्तिप्रयोजनाभ्यां युक्तम् ॥ १॥ अर्जित इति ।
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् । अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥१८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ ८४॥ एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ १॥ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे । यो मे त्वमीदृशी सेनामेकोभ्यर्चितुमिच्छसि ॥२॥ इत्युक्त्वा तु महातेजा गुहं वचन मुत्तमम् । अब्रवीद्भरतः श्रीमान् निषादाधिपति पुनः॥ ३॥ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह । गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥४॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः। अब्रवीत् प्राअलिक्यिं गुहोगहन
गोचरः ॥५॥ दाशास्त्वाऽनुगमिष्यन्ति धन्विनः सुसमाहिताः। अहं त्वाऽनुगमिष्यामि राजपुत्र महायशः॥६॥ स्वस्य रामविषयभक्ति द्योतयितुं मम गुरोः सखे इत्युक्तम् । यस्त्वमेक एव ईदृशीमपरिच्छिन्नां सेनामभ्यर्चितुमिच्छसि तस्य ते ऊर्जितः अभिवृद्धः कामः अर्चनामनोरथः कृतः खलु कृत एव, तवादरेणेव वयमचिंता इतिभावः॥२॥ इतीति । महातेजा इति गाम्भीर्यद्योतनम् । उत्तममित्यने । नार्चनोद्योगमात्रेण तृप्तत्वकथनादवाप्तसमस्तकामत्वमुक्तम् । श्रीमानिति तात्कालिकहर्षः ॥३॥ कतरेणेति । कतरेण केन मार्गेण । भृशं गहनः अत्यन्तदुष्प्रवेशः।अनूपो देशः जलप्रायो देशः। “जलप्रायमनूपं स्यात्" इत्यमरः॥४॥ तस्येति । गहनं काननं गोचरः सञ्चारप्रदेशो यस्य सः गहनगोचरः। “गहनं काननं वनम्" इत्यमरः ॥५॥ दाशा इति । अहमनुगमिष्यामि अतोन मागविषयविचारः कर्त्तव्य इतिभावः॥६॥ स्वाशिता सुष्ठ भोजिता । (वसत्वेनामितिपाठः) वसत्विति आशंसे प्रार्थये अतो अर्चितः श्वो गमिष्यतीति सम्बन्धः ॥ १८ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामा यणतत्त्वदीपिकाख्यायाम अयोध्याकाण्डव्याख्यायां चतुरशीतितमस्सर्गः ॥ ८४ ॥ एवमिति । हेत्वर्थसंहितम् उत्पत्तिप्रयोजनाभ्यां युक्तम् ॥१॥ ऊर्जित इति ॥२५५॥ यस्त्वं मे मम ईदृशी सेनाम् एको ह्यचितुमिच्छसि, तस्य ते ऊर्जितः कामः कृतः खलु तव श्रद्धया सर्व कृतमेवेत्यर्थः ॥२॥३॥ कतरेणेति । कतरेण केन मार्गेण । गहनः अत्यन्तदुष्प्रवेशः ॥ ४॥ तस्येति । गहनगोचरः दुष्प्रवेशप्रदेशप्तश्चरणशीलः॥५॥दाशास्त्विति । अतो गहनविषया न काचिच्छङ्केति भावः ॥६॥॥
For Private And Personal Use Only