________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyarmandir
अभूत् ॥ २१ ॥ २२ ॥ निवेशयतेति । अभिप्रायेण तत्तदिच्छया इदानीं विश्रान्ताः श्वो नदी प्रतरिष्याम इति सम्बन्धः ॥२३॥ दातुमिति । ओर्ध्वदेही निमित्तार्थम् ऊर्ध्वदेहभवसुखप्रयोजनायेत्यर्थः । नदीमवतीर्य पितुरोर्ध्वदेहनिमित्तार्थमुदकं दातुमिच्छामीत्यन्वयः ॥ २४ ॥ तस्येति । छन्देन इच्छया। निवेशयत मे सैन्यमभिप्रायेण सर्वतः। विश्रान्ताः प्रतरिष्यामः श्व इदानीमिमां नदीम् ॥२३॥ दातुं च ताव दिच्छामि स्वर्गतस्य महीपतेः। और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ २४ ॥ तस्यैवं अवतोऽमात्यास्तथे त्युक्त्वा समाहिताः। न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक् ॥२५॥ निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिवर्हशोभिनीम् । उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्त्तनम् ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
ततो निविष्टां ध्वजिनी गङ्गामन्वाश्रितां नदीम् । निषादराजो दृष्ट्वैव ज्ञातीन सन्त्वरितोऽब्रवीत् ॥ १॥
महतीयमितः सेना सागराभा प्रदृश्यते । नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ २॥ “छन्दः श्रुतीच्छापद्येषु" इति वैजयन्ती ॥ २५ ॥ निवेश्येति । गङ्गामनु निवेश्य गङ्गामनुसृत्य निवेश्य, गङ्गाकूलानुसारेण निवेश्येति यावत् । विधानः तत्तजातिव्यवस्थाकल्पनादिभिः। परिबर्हशोभिनी परिवहाँ यात्रोपयुक्तपटवेश्माद्युपकरणम् । “तथोपकरणं प्रोक्तं परिवहः परिच्छदः" इति हलायुधः ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्र्यशीतितमः सर्गः॥८३॥ तत इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अतएव निविष्टां कृतनिवेशां घजिनी सेनां दृष्ट्वा । सन्त्वरितः ससम्भ्रमः॥३॥ महतीति । इतः इह शृङ्गि बरपुरे । अस्य सेनारूपवस्तुनः। चिन्तयन्नहं मनसापि नास्यान्तमधिगच्छामीति सम्बन्धः ॥२॥ निवेशयतेति । इदानीं मे सैन्यम् अभिप्रायेण तत्तदिच्छया सर्वतो निवेशयत । ततः श्वो नदी प्रतरिष्याम इति सम्बन्धः॥ २३ ॥ और्ध्वदेहनिमित्तार्थ उर्वभवदेह मुखप्रयोजनायेत्यर्थः ॥२४॥ छन्देन इच्छया ॥२५॥ निवेश्येति । परिवर्हशोभिनीम् । पारेबहः यात्रोपयुक्तवेदमाशुपकरणजातम्, विधानः तत्तजातीयव्यवस्थाकल्प ) नाभिः।गङ्गामनु गङ्गामनुसृत्य निवेश्य गङ्गाकूलानुसारेण निवेश्यति यावत् ॥ २६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्या काण्डव्याख्यायां व्यशीतितमः सर्गः ॥ ८३ ॥ तत इति । गङ्गामन्याश्रिताम् अत एव निविष्टाम् ॥ १॥२॥
For Private And Personal Use Only