________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२५३॥ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करिकरे मधे " इतिवैजयन्ती ॥ १२-१४ ॥ रजकाः निर्जेजकाः “ निर्णेजकः स्यादजकः" इत्यमरः । तुन्नवायाः सौचिकाः । " तुन्नवायस्तु सौचिकः " इत्यमरः । ग्रामघोषमहत्तराः ग्राममहत्तराः घोषमहत्तराश्व, महत्तराः प्रधानभूताः । “घोष आभीरपडी स्यात्" इत्यमरः । शैलूषाः भूमिकाधारिणः,
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः । शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्त्तकास्तथा ॥ १५ ॥ समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः । गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥ सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः । सर्वे ते विविधै र्यानैः शनैर्भरतमन्वयुः ॥ १७॥ प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् । भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ १८ ॥ ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गां शृङ्गिवेरपुरं प्रति ॥ १९ ॥ यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशं तं परिपालयन् ॥२०॥ उपेत्य तीरं गङ्गायाश्चक्रवाकैरलंकृतम् । व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥ निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् । भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः ॥ २२ ॥
स्त्रीजीविनो वा । अतएव सह स्त्रीभिरित्युक्तम् । “शैलालिनस्तु शैलूषा जायाजीवाः" इत्यमरः । कैवर्ताः धीवराः। "कैवर्त्ते दाशधीवरी" इत्यमरः । ते सर्वे ययुरित्यन्वयः ॥ १५ ॥ समाहिताः योगिनः । गोरथैर्नृपभयुक्तरथैः शकटैरिति यावत् ॥ १६ ॥ ताम्रमृष्टानुलेपनाः रक्तवर्णसम्पूर्णाङ्गरामाः ॥ १७ ॥ प्रहर्षः कायिको रोमाञ्चादिः । प्रमोदो मानसो हर्षः । आनयने आनयननिमित्तम् ॥ १८ ॥ त इति । शृङ्गिवेरपुरं प्रति दूरमध्वानं गत्वा गङ्गां समासेदु रिति सम्बन्धः । यद्वा शृङ्गिबेरपुरं प्रतीति [ "लक्षणेत्थंभूताख्यान -" इति ] लक्षणे कर्म प्रवचनीयः । शृङ्गिवेरपुर इत्यर्थः ॥ १९ ॥ यत्रेति । अप्रमादेन सावधानतया, रामविरोध्यागमनवारणपर इत्यर्थः । तत्र देशे विद्यमानं शृङ्गिवेरपुरं प्रतीति पूर्वेणान्वयः ॥ २० ॥ उपेत्येति । व्यवातिष्ठत व्यवस्थिता ग्रामघोषाः ग्रामस्थजनमेलने कर्तारः ॥ १५ ॥ गोरथैः वृषभयुक्तरथैः शकटेरिति यावत् ॥ १६ ॥ १७ ॥ प्रहृष्टेति । प्रहृष्टमुदिताः प्रहर्षः कायिको रोमाञ्चादिः । प्रमोदो मानसो हर्षः ॥ १८ ॥ शृङ्गिवेरपुरं प्रति दूरमध्वानं गत्वा गङ्गामासेदुरिति सम्बन्धः ॥ १२ ॥ यत्रेति । अप्रमादेन सावधानेन । २०-२२ ॥
For Private And Personal Use Only
टी.अ.का. २०८३
॥२५३॥