SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू.. ॥२५४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथेति । स इक्ष्वाकुकुलकमागतः कोविदारध्वजः रथे दृश्यते । हि यस्मात् अतो भरतः स्वयमागतः यथा तु खलु ध्रुवमित्यर्थः । कोविदारध्वजः दुर्बुद्धिरित्यनेन भरतो रामद्रोद्दाकाङ्क्षया आगच्छतीति शङ्कितवानिति गम्यते ॥ ३ ॥ तदेव स्थापयिष्यति -बन्धयिष्यतीत्यादिना । दाशानस्मान् यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः । स एष हि महाकायः कोविदारध्वजो रथे ॥ ३ ॥ बन्धयिष्यति वा दाशानथवाऽस्मान् वधिष्यति । अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ ४ ॥ सम्पन्न श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥५॥ भर्त्ता चैव सखा चैव रामो दाशरथिर्मम । तस्यार्थ कामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ॥ ६ ॥ तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् । बलयुक्ता नदीरक्षा मांसमूल फलाशनाः ॥७॥ नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम् । सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ ८ ॥ बन्धयिष्यति अथवा वधिष्यति इनिष्यति । इनो लुटि बधादेश आर्षः । अथ अथवा । दाशरथिं ज्ञातिभूतमिति भावः । विवासितं दुर्बलमित्यर्थः । सम्पन्नाम् अप्रच्युताम् । रामागमने हि श्रीः प्रच्युता स्यात् । कैकयीपुत्र इति दुष्प्रकृतित्वे हेतुः । तस्य राज्ञः राजत्वाईस्य रामस्य सुदुर्लभाम् ॥ ४ ॥ ५ ॥ किमतोऽभवदित्यत्राह - भर्तेति । अर्थकका॒माः अर्थेच्छवः, यूयमितिशेषः । अनूपे तीरे ॥६॥ तिष्ठन्त्विति । सर्वे दाशाश्च गङ्गामन्वाश्रिताः सन्तः बलयुक्ताः सेनायुक्ताः । नदीरक्षाः नदीतरणमार्गे रक्षन्तः । मांसमूलफलाशनाः नावारोपितमांसाद्यशनाः तिष्ठन्तु ॥ ७ ॥ नावामित्यादि । पञ्चानां शतानां नावाम् एकैकस्या नावः कैवर्त्तानां शतं शतं तिष्ठन्तु, शतंशतं कैवर्त्ताः तिष्ठन्त्वित्यर्थः ॥ ८ ॥ यथेति । भरतः स्वयमागतो यथा तु खलु भरतः स्वयमागतो नूनम् । कुतः ? हि यस्मात् एष तस्य कोविदारध्वजः कोविदारलक्षणो ध्वजो रथे दृश्यते । यद्वा स प्रसिद्धः । इक्ष्वाकुकुलक्रमागतः । यथा येन कारणेन रथेन कोविदारध्वजो दृश्यते ततो दुर्बुद्धिर्भरतः स्वयमागतः खलु, आगत इत्यमन्यतेत्यर्थः ॥ ३ ॥ बन्धयिष्यतीत्यादिश्लोकद्वयमेकं वाक्यम् । भरतः दाशानस्मान् वधिष्यति । अनु पश्चादाशरथिं हन्तुं समधिगच्छतीति सम्बन्धः ॥ ४ ॥ ५ ॥ भर्तेति । तस्पार्थ कामाः रामस्य प्रयोजनं काङ्गमाणाः ॥ ६ ॥ तिष्ठन्त्विति । नदीरक्षाः नदीं रक्षन्तीति नदीरक्षाः ॥ ७ ॥ पञ्चानां शतानां नावां प्रत्येकं कैवर्तानां शतं शतं तिष्ठन्त्वित्यभ्यचोदयदिति सम्बन्धः । पञ्चशतसङ्ख्यासु नौषु प्रत्येकं शतं शतं कैवर्तकास्तिष्ठन्त्वित्यर्थः ॥ ८ ॥ For Private And Personal Use Only टी.अ. कां. स० ८४ ॥२५४॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy