________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kailassagarsur Gyarmandie
वा.रा.भू.
टी.अ.का.
॥२५२॥
स० ८३
नवनागसहस्रमात्र प्रयाणे कल्पितमित्यवगम्यते ॥ ३॥ धन्विनो विविधायुधाश्चेत्यनेन योधा उक्ताः ॥ ४॥ समारूढानि सादिभिरिति शेषः॥५॥ कैकेयीति । अग्रतो गमनं पश्चात्तापातिशयात् । यानेनेत्येकवचनं प्रत्येकाला ॥६॥ आर्यसयता त्रैवर्षिकसङ्घाः । तस्यैव कथाः तत्सम्बन्धिवार्ताः ॥७॥ ता एवाह-मेघेत्यादिना । मेघश्यामं दूरस्थितत्वेपि त्यक्तमशक्यं सौन्दर्यमुच्यते । धर्माभितप्ताः पर्जन्यमितिन् । मेघश्यामं दर्शनमात्रेण । षष्टीरथसहस्राणि धन्विनो विविधायुधाः। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४॥ शतं सहस्राण्यश्वानां समारूढानि राघवम् । अन्वयुभरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥५॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी। रामानयनसंहृष्टा ययुर्यानेन भास्वता॥६॥ प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् । तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः॥७॥ मेघश्याम महाबाहुं स्थिरसत्त्वं दृढवतम् । कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥८॥ दृष्ट एव हि नः शोकमपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥९॥ इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥१०॥ सर्वसन्तापहरम् । महाबाहुम् 'आयताश्च सुवृत्ताश्च' इतियुक्तम् । महाबाहुं तादृशसौन्दर्यानुभवदानविषयौदार्ययुक्तम् । महाबाहुं तादृशसौन्दर्यभोगप्रदान समथे "राममिन्दीवरश्यामं सर्वशनिबईणम्" इतिवत् । स्थिरसत्सं स्थिव्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । स्थिरचित्त मिति च पाठः । आश्रितपातिकूल्येनाप्यविकृतमनस्कम् । दृढव्रतम् अन्तरङ्गैरप्यप्रकम्प्याश्रितरक्षणदीक्षम् । कदा द्रक्ष्यामहे रामं तन्मुखावलोकनमात्र लभ्यते चेत् केकयीवचनजनिततापाःसर्वेपि निवर्तेरन्। जगतः शोकनाशनम् वस्मिन् सर्वलोकशोकनिवर्तके सति कथं वयं शोकाकुलाः स्थामा तदीय सर्वलोकशोकनिवर्तकत्वस्य अस्मच्छोकस्य च का सम्बन्धः। मा शुच इत्युक्तवतोप्यस्यातिशय उक्तः ॥८॥ दृष् इति । दृष्ट एवं रामः सन्निहितश्चेत्स मन्दस्मितो माभूत् कटाक्षपूर्वकं किञ्चित् प्रियवचनं च मावोचत् । अस्माभिश्च न यत्नः कार्यः किन्तु दूरे दर्शनमात्रेणास्मच्छोकाः सर्वे विनश्येयुः । तम इत्यादि । यथोयन् आदित्यो दूरस्थितोपि सकललोकान्धकारं निवर्त्तयति ॥२॥इतीति । परिष्वजानाः परिष्वजमानाः। नगरे चरन्तीति नागरिकाः। कल्पितानि भरतनियोगमनतिक्रम्य कल्पितानि सन्नद्धानि । नवनागसहस्राणीत्यनेन पुरे विद्यमानगजेषु नवनागसहस्रमा भरलेन सह मतमित्यर्थः ॥ ३ ॥४॥ समारूढानि, सादिभिरिति शेषः ॥५॥ यानेनेत्येकवचनं प्रत्येकापेक्षया ॥६॥ आर्यसकाताः त्रैवर्णिकसमूहाः ॥७-२॥ परिष्वजानाः परिष्वजमानाः ॥१०॥
व
॥२५२५
For Private And Personal Use Only