________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उक्तमर्थ पुनः सङ्ग्रहेण दर्शयति-स इत्यादिना । सत्यधृतिः अप्रच्युतधैर्यः । सुयुक्तं बुवन् गुरुं प्रसादयिष्यन् उचितवचनेन रामं प्रीणयिष्यन्नित्यर्थः ॥ २९ ॥ बलस्य योगाय बलस्य सत्रहनाय बलस्य सङ्गतये वा । "योगः सन्नदनोपायध्यानसङ्गतियुक्तिषु " इत्यमरः । बलप्रधानान् गच्छ, प्रधानशब्दः भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः । रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ २८ ॥ स राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः । गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतोऽब्रवीत्तदा ॥२९॥ तूर्ण समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् । आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥३०॥ स सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः । शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुह ज्जनं च ॥ ३१ ॥ ततः समुत्थाय कुलेकुले ते राजन्यवैश्या वृषलाश्च विप्राः । अयूयु जन्नुष्ट्ररथान खरांश्च नागान हयांश्चैव कुलप्रसूतान् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये ० श्रीमदयोध्याकाण्डे व्यशीतितमः सर्गः ॥ ८२ ॥ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ भरतः शीघ्रं रामदर्शनकांक्षया ॥ १ ॥ अग्रतः प्रययु स्तस्य सर्वे मन्त्रिपुरोधसः । अधिरुह्य हयैर्युक्तान् स्थान सूर्यरथोपमान् ॥ २ ॥ नवनागसहस्राणि कल्पितानि यथाविधि । अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ ३ ॥
| पुंलिङ्गोऽप्यस्ति ॥ ३० ॥ ३१ ॥ वृपलाः शूद्राः । कुलेकुले गृहेगृहे । “कुलं जनपदे गृहे" इत्यमरः । अयूयुजन् सज्जानकुर्वन् । कुलप्रसूतान् उत्तमानित्यर्थः ।। ३२ ।। इति श्रीगो० श्रीरामायणभूषणे पीता• अयोध्याकाण्डव्याख्याने व्यशीतितमः सर्गः ॥ ८२ ॥ तत इति । काल्यम् अहर्मुखम् । “प्रत्यूषोऽह मुखं काल्यम् " इत्यमरः । प्राप्येतिशेषः ॥ १ ॥ २ ॥ यथाविधि कल्पितानि भरतनियोगमनतिक्रम्य कल्पितानि । नवनागसहस्राणीत्यनेन पुरस्थगजेषु सुयुक्तं ब्रुवन् गुरुं प्रसादयिष्यन् राममुचितवचनेन प्रीणयिष्यन् बलस्य योगाय बलस्य सङ्गतये ॥ २९-३१ ॥ तत इति । कुले गृहे । वृषलाः शूद्राः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायण तत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वशीतितमः सर्गः ॥ ८२ ॥ तत इति । काल्यं प्रातः काले || १ ||२॥ यथाविधि
ร
For Private And Personal Use Only