________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मत्प्रकृति ज्ञात्वा धर्म वक्तुमर्हसि । धर्म पाल्यत्वपालकत्वरूपं वक्तुमर्हसि, रामशेषत्वाविशेषे एक शेषं कथमपरं रक्षत् । तथासति राज्यमेव मां किमिति न रक्षेदिति भावः । ननु रत्नपेटिकयोयोः शेषत्वाविशेषेपि एकं रक्ष्यमपरं रक्षकं च दृष्टम् तद्वदस्त्विति चेन्न, तत्र हि पेटिका कुञ्चिकादि|
ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः।लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ॥१३॥ अनार्यजुष्टमस्वयं कुर्यां पापमहं यदि । इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ १४॥ यद्धि मात्रा कृतं पापं नाहं तदपि रोचये । इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥१५॥ राममेवानुगच्छामि राजास द्विपदां वरः। त्रयाणामपि लोकानां राज्यमर्हति राधवः ॥ १६ ॥ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्व सभासदः । हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ १७॥ यदि त्वार्य न शक्ष्यामि विनिवर्तयितुं वनात् । वने तत्रैव वत्स्यामि यथार्यों लक्ष्मणस्तथा ॥ १८॥
सर्वोपायं तु वर्तिष्ये विनिवर्तयितुंबलात् । समक्षमार्यमिश्राणां साधूनां गुणवत्तिनाम् ॥ १९॥ व्यापारण स्वामिना रक्षकत्वेन विनियुक्ता, नाहमेवं रामेण विनियुक्तः । यथा स्वैकधार्यमपि रत्नमवसरे पेटिकास्थं करोति तद्वत्वेनैव पाल्पमपि| राज्यमस्माभिर्यावच्छक्ति प्रसादितोपि अनवसरतया रामो यदा मदीनं कुर्यात्तदा तदाहितशक्तिकस्तत्परतन्त्रः पेटिकावत् यावत्तदागमनं रक्षेयम् । अतस्तनिवर्तनप्रयत्न एव सर्वथा कार्यः। प्रथमतो वरनिर्बन्धादिकृता राज्यस्यास्मदीयत्वबुद्धिः रामसमक्षं गत्वा परिहरणीयेति भावः ॥ १२॥ वक्तव्यं धर्ममाह-ज्येष्ट इत्यादिना । दिलीपनहुषशब्दौ चन्द्रमूर्यवंशश्रेष्ठराजोपलक्षणार्थों ॥ १३ ॥ अनायेति । इक्ष्वाकूणां लोके तत्सम्बधिनि जने ॥१४॥ यद्धीत्यनेनाप्राप्तभाषणश्रवणपापस्य प्रायश्चित्तमनुष्ठितम्॥१५॥ द्वौ पादौ येषां ते द्विपादः । “ सङ्ख्यासुपूर्वस्य" इति लोपः समासान्तः। अतः “पादःपत्" इतिभस्थले पदादेशः। तेषां पुरुषाणामित्यर्थः॥ १६ ॥ मध्ये कविवाक्यम्-तद्वाक्यमिति । सभासु सीदन्तीति सभासदः सभ्याः ॥१७॥ यदीति । कनिष्ठे लक्ष्मणे आर्यशब्दप्रयोगो ज्येष्ठानुवर्तनरूपधर्मनिरतत्वात् । यथायों लक्ष्मणस्तथाई लक्ष्मणश्चेत्यर्थः ॥१८॥ सर्वोपायं वर्तिष्ये । सर्वोपायमिति क्रियाविशेषणम्, सर्वोपायर्यत्नं करिष्य इत्यर्थः । आमिश्राणां सदस्यानाम् । “आर्यमिश्राः पारिषदाः सदस्या राममेवानुगच्छामि, आनेतुमिति शेषः । कुतः द्विपदा वरः स राघवो राजा त्रयाणामपि लोकानां राज्यमर्हति नान्य इति भावः ॥१६-१८॥ सर्वोपायमिति। आर्य
For Private And Personal Use Only