________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
॥२५०॥
पाटी.अ.को समुद्रदीपवासिनः ॥ ८॥ धर्मज्ञः कुलक्रमागतज्येष्ठाभिषेचनरूपधर्मज्ञः। धर्मकाया ज्येष्ठानुवर्तनरूपधलिप्सया । रामं मनसा जगाम, सस्मारे| त्यर्थः॥९॥ स इति । बाष्पकलया अधर्मस्मरणात् रामस्मरणाद्वा । बाष्पेणाव्यक्तया कलहंसस्वर इत्यनेन अभिनिवेशविशेषो द्योत्यते । स.८२
तच्छत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः। जगाम मनसा रामं धर्मज्ञो धर्मकांक्षया॥९॥ सवाष्पकलया वाचा कलहंसस्वरो युवा । विललाप सभामध्ये जगहें च पुरोहितम् ॥१०॥ चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः। धर्म प्रयतमानस्य को राज्यं मधिो हरेत् ॥११॥
कथं दशरथाज्जातो भवेद्राज्यापहारकः । राज्यं चाहं च रामस्य धर्म वक्तुमिहार्हसि ॥ १२॥ आयुवेत्यनेन भोगकालेपि भोगोपकरणजिहासा चित्रमिति ऋषिः स्तौति । सभामध्ये जगहें 'नियमातिकम रहसि बोधयेत् ' इति नियमोपि भग्नः । अति
रमधर्म नियुक्तवानिति दुःखपारवश्यात् रहः सदोविभागविस्मरणेन गर्हितवान् । पुरोहितं जगहें सम्यक त्वयास्य कुलस्य भाविहितमवेक्षित मिति निनिन्द । सभामध्ये बहवः समेत्य ममेकस्प पारतम्यं किमपजिहीर्षन्ति सभामध्ये किमवनेपि मद्धनं मुष्णन्ति ॥१०॥ चरितेति । चरितब्रह्मचर्यस्य अनुष्ठितगुरुकुलबासस्य । विद्यास्त्रातस्य " वेदमधीत्य सायात् " इति स्मृतिप्रक्रियया निखिलवेदाध्ययनानन्तरभाविस्नान कर्मयुक्तस्य । धीमतः तदर्थज्ञस्य । धर्म प्रयतमानस्य तदर्थानुष्ठानवतः । मधिः शास्त्रवश्यो मादृशः ॥११॥ मद्विध इत्येतादिवृणोति-कथमित्या दिना । रामविरहोत्तरक्षणे मृतस्य कुक्षौ जातोऽई कथं तत्त्यक्तं राज्यं परिगृह्णीयाम् ? मत्स्वरूपपर्यालोचनयापि नाई राज्याई इत्याह राज्यं चेति । शेषवस्तुष्वेकमेकस्य किमीष्टे प्रत्युत राज्यं वा किमिति मां नेष्टे राज्यं चाई च रामस्य राज्यमपि रामसम्बन्धि अहमपि च रामसम्बन्धी, उभयमपि रामशेषमित्यर्थः । धर्म वक्तुमिहार्हसि लोके स्वपित्रादिकं निगृह्य वयं राज्यस्य कर्तारः सन्ति तदेतब्यक्तावपि भवतीति मा मंस्थाः । इह मद्विषये । सरत्वेति । धर्मज्ञः कुलक्रमागतज्येष्ठाभिषेचनरूपधर्मज्ञः । धर्मकाया ज्येष्ठानुवर्तनरूपधर्मलिप्सया राम मनसा जगाम सस्मारेत्यर्थः ॥९॥ स इति ।। सभामध्ये जगहें च पुरोहितम् अधर्म मा नियुक्तवानिति दुःखपारवश्यागृहितवान ॥ १० ॥ चरितेति । विद्यास्नातस्य सर्ववेदाध्ययनानन्तरभाविस्नान युक्तस्य । मद्विधः शास्त्रवश्यो मादृशः॥ ११॥ राज्यं च रामसम्बन्धि अहमपि रामसम्बधि उभयमपि रामशेषमित्यर्थः । अतो धर्म वक्तुमर्हसि ॥ १२-१५॥
॥२५॥
For Private And Personal Use Only