SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin तामिति । प्रग्रहां नियमवतीम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम्, तदा निशाविशेषणमिदम् ॥ १ ॥ आसनानि विशताम् आसनेषूपविशता मित्यर्थः ॥ २ ॥ सेति । चनापाये वर्षापगमे, शरदीति यावत् । भरताभिषेकाय सर्वे अलंकृताः समागता इति भावः ॥ ३ ॥ प्रेक्ष्य संवादार्थमवलोक्य तामार्यगण सम्पूर्णा भरतः प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव ॥ १ ॥ आसनानि यथान्याय मार्याणां विशतां तदा । वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ॥ २ ॥ सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ ३ ॥ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ ४ ॥ तात राजा दशरथः स्वर्गतो धर्ममाचरन् । धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ ५ ॥ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् । नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ ६ ॥ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्। तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥७॥ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः । कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ॥ ८ ॥ ॥ ४ ॥ तात वत्स ! धर्मे सत्यपरिपालनरूपम् । तव तुभ्यम् ॥ ५ ॥ तथा पितृवत् सत्ये धृतिः प्रीतिर्यस्य स सत्यधृतिः । “धृङ् प्रीतौ” इति धातोः स्त्रियां क्तिन् प्रत्ययः । सतां पितृनिर्देशवर्त्तिनाम् । धर्मं पितृवचनपरिपालनरूपम्। " जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात् । गयायां पिण्ड दानाञ्च त्रिभिः पुत्रस्य पुत्रता ॥” इति वचनात् ॥ ६ ॥ पित्रेति । अभिषेचय आत्मानमिति शेषः ||७|| उदीच्या इति प्राच्या इत्यपि सिद्धम् । केवलाः सिंहासनादिरहिता इत्यपरान्तादिविशेषणम् । अपरान्ताः अपरान्तदेशवासिनो यवनाः । कोटया कोटिसङ्ख्यया उपलक्षितानि रत्नानि । सामुद्राः ॐ तामिति । प्रग्रहां निभृताम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम् ॥ १ ॥ आसनानि विशताम् आसनेषूपविशतामित्यर्थः ॥ २ ॥ सेति । घनापाये वर्षापगमे ७ ॥ ३ ॥ ४ ॥ धर्ममाचरन धर्म सत्यपरिपालनरूपम् ॥ ६ ॥ राम इति तथा सत्यधृतिः तथा पितृवत्सत्यवर्ती । सतां धर्मे पितृनिदेशवर्तिनां धर्मे पितृवचनपरि | पालनरूपम् ॥ ६ ॥ अभिषेचय आत्मानमिति शेषः ॥ ७ ॥ केवलाः प्रत्येकश्विरा इत्यर्थः । कोट्यापरान्ता इत्यत्र परान्ता इति छेदः । कोटचा उपलक्षिताः परान्ताः प्राचीदिगन्तवासिनः । सामुद्राः समुद्रद्वीपवासिन इत्यर्थः ॥ ८ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy