________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
की
स०८१
वा.रा.भू सोऽस्यास्तीति कर्णी स एव कर्णिकः, कर्णधारक इति यावत । तद्रहिता ॥६-९॥शातकुम्भमयीं स्वर्णमयीम् । मणिरत्नसमाकुलां मणिश्रेष्ठसमावृतां ॥२४॥ला"रत्नं स्वजातिश्रेष्ठेऽपि " इत्यमरः । यद्वा मणयो मुक्ताः “मणियोरश्मजातो मुक्तादिकेऽपि च" इत्यमरः। रत्नानि पद्मरागादीनि । अत्र सभा
शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् । सुधर्मामिव धर्मात्मा सगणःप्रत्यपद्यत ॥१०॥ स काञ्चनमयं पीठं सुखास्तरणसंवृतम्। अध्यास्त सर्ववेदज्ञो दूताननुशशास च ॥११॥ ब्राह्मणान् क्षत्रियान वैश्यानमात्यान् गणवल्ल भान् । क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः॥ १२॥ सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् । युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः॥ १३॥ ततो हलहलाशब्दः सुमहान समपद्यत । रथैरश्वैर्गजैश्चापि जनानामुप गच्छताम् ॥ १४॥ ततो भरतमायान्तं शतक्रतुमिवामराः। प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा ॥ १५॥ ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः। दशरथसुतशोभिता सभा सदशरथेव बभौ यथापुरा ॥ १६॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकाशीतितमः सर्गः ॥ ८ ॥ मिति विशेष्यम् । सगणः सशिष्यगणः ॥ १० ॥११ ॥ गणवल्लभान गणाध्यक्षान् । आत्ययिकम् अत्ययः कृच्छं तत्रभवमात्यायिकम्, यत्नसाध्यमि त्यर्थः ॥ १२ ॥ सराजभृत्यं राजान्तरङ्गभृत्यसहितम् । युधाजिदिति विजयाख्यमन्त्रिणो नामान्तरं सुमन्त्रशब्दसाहचर्यात् । ये च तत्र भरते हिताः हितपराः जनाः तानप्यानयतेति पूर्वेण सम्बन्धः ॥ १३-१५ ॥शर्कराशब्देनात्र स्थूलवालुका उच्यन्ते । ह्रदश्च समुद्रसमीपस्थः ।तिमिशङ्कादिसाह || चर्यात् । अत्र स्तिमितजलेन वसिष्ठस्य तिमिनागाभ्यां भरतशत्रुघ्नयोमण्यादिभिरमात्यादीनां च साम्यम् ॥१६॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥ शातकुम्भेति । मणिरत्नसमाकुला मणिश्रेष्ठनिविडाम् । सगणः सशिष्यगणः ॥ १०॥ ११ ॥ गणवल्लभान सेनानायकान् । आत्ययिकम् अत्ययः कृच्छ् तत्र भव मात्ययिकम, यत्नसाध्यमित्यर्थः ॥ १२ ॥ ये हिता जनाः तानानयेति पूर्वेण सम्बन्धः । युधाजिदिति कश्चन मन्त्री ॥ १३-१५ ॥ इद दवेति । शर्कराशब्देन स्थूल वालुका उच्यन्ते ॥ १६ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामावगतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् एकाशीतितमः सर्गः॥ ८१॥
al॥२४॥
For Private And Personal Use Only