________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत इति । नान्दीमुखी रामानयनाभ्युदयप्रारम्भयुक्ताम् । यद्वा भरताभिषेकाय वसिष्ठेन कृतनान्दीमुखाभ्युदययुक्ताम् । यद्वा शोकविगमाय कृताभ्युदया मित्यर्थः । रात्रिं रात्रौ अपररात्र इत्यर्थः । यद्वा रात्रिं प्राप्येतिशेषः । मङ्गलसंहितैः मङ्गलशब्दसहितैः ॥ १ ॥ कोणो वादनदण्डः । यामावसानसूचको
ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः । तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः ॥ १॥ सुवर्णकोणाभिहतः प्राणद द्यामदुन्दुभिः । दध्मुः शङ्खांश्च शतशो नादांश्श्रोच्चावचस्वरान् ॥ २ ॥ स तूर्यघोषः सुमहान् दिवमापूरयन्निव । भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत् ॥ ३ ॥ ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च । नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ ४ ॥ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् । विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ ५ ॥ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः । परिभ्रमति राजश्रीनरिवाकर्णिका जले ॥ ६ ॥ यो हि नः सुमहान्नाथः सोपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥ ७ ॥ इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् । कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा ॥ ८ ॥ तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् । सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ ९ ॥
दुन्दुभिः यामदुन्दुभिः । प्राणदत् नदति स्म । नाधन्ते एभिरिति नादाः काहल्यादयः तान् । उच्चावचस्वरान् निम्नोन्नतस्वरान् । मन्द्रमध्यमतार रूपेण नानास्वरानित्यर्थः ॥२॥ अरन्धयत् व्यदारयत् । अरन्धयदितिपाठे - अपचत् अतपदित्यर्थः ॥ ३ ॥ ४ ॥ कैकेय्या हेतुभूतया जायमानं लोकस्य सूत | मागधादेः अपकृतम् अनुचितं कर्म पश्य । यद्वा लोकस्य जनस्य कैकेय्या महद्यथा भवति तथाऽपकृतम् । तदेवाह विसृज्येत्यादि ॥ ५ ॥ राजश्रीः प्रधाने राजनि वर्त्तमाने ज्येष्ठपुत्रस्य युवराजत्वेन प्राप्तेत्येवमविच्छिन्ना राज्यलक्ष्मीः । अकर्णिका कर्णोऽरित्रं " कर्णः श्रोत्रमरित्रं च " इति भुवनः तत इति । नान्दीमुखीं रामानयनाभ्युदयप्रारम्भयुक्तां रात्रिं । रात्रौ अपररात्र इति यावत् ॥ १ ॥ सुवर्णेति । सुवर्णकोणाभिहतः सुवर्णदण्डाभिहतः । यामदुन्दुभिः ग्रामनिर्गमनसुतको दुन्दुभिः । सान्ध्यान् मङ्गलादीन् । अरन्ध्रयत् व्यदलयत् ॥ २५ ॥ तस्येति । राजपरम्परया आगता श्रीः । अकर्णिका कर्णधररहिता ॥ ६-९ ॥
For Private And Personal Use Only