________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा-रा.भू. ॥२४॥
स०८०
निवेशोऽभिप्रेतः अभिमतस्तं तादृशसंनिवेशम्, यथाज्ञप्ति यथामति आज्ञाप्य का नियम्य भूषणोपमं भूषणभूतम्, स्वतोलंकृतमितियावत् । निवेश भूषाभिः वितानकनककलशध्वजादिभिः भूयोपि शोभयामासुः भूपयामासुः॥१५॥१६॥ तद्विदः वास्तुशास्त्रज्ञाः । निवेशान् शिबिराणि ॥१७॥ बहित्या दिश्वोकत्रयमेकं वाक्यम् । तत्र मागें । बहुपांसुचयाः पांसुशब्देनात्र सूक्ष्मसिकता उच्यन्ते । बहवः पांसुचया येषु ते तथोकाः। परिखापरिवारिताः खेये
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः। निवेशान स्थापयामासुर्भरतस्य महात्मनः॥१७॥ बहुपांसुचयाश्चापि परिखा परिवारिताः। तत्रेन्द्रकीलप्रतिमाःप्रतोलीवरशोभिताः ॥ १८॥ प्रासादमालावितताः सौधप्राकारसंवृताः। पताका शोभिताः सर्वे सुनिर्मितमहापथाः ॥ १९ ॥ विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः। समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥ २० ॥ जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् । शीतलामलपानीयां महामीनसमाकुलाम ॥ २१ ॥ सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते । नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः॥२२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अशीतितमः सर्गः॥८॥ वृताः इन्द्रकीलप्रतिमाः इन्द्रकीलपर्वतसदृशाः । प्रतोलीवरशोभिताः। प्रतोली वीथिः । “ रथ्या प्रतोली विशिखा " इत्यमरः । प्रासादमालावितताः प्रासादा देवगृहाणि "प्रासादो देवभूभुजाम्" इत्यमरः । सोधप्राकारसंवृताः सौधाः राजगृहाणि । यदा सौधाः सुधाधवलिताः “तेन रक्तं रागात इत्यण् । समुच्छ्तैिः उन्नतेः अतएव आकाशे विसपद्भिरिव स्थितैः। विटङ्कारविमानकैः विटयुक्तापविमानः। “कपोतपालिकायां तु विटई पुन सकम्" इत्यमरः । विमानानि सप्तभूमिकाःप्रासादास्तेवभुः। शकपुरोपमाः अमरावतीसदृशाः॥१८-२०॥ समासाद्य अवधीकृत्य, तत्पर्यन्तमित्यर्थः। निवेशा बभुरिति पूर्वेणान्वयः। उत्तरेण वा गङ्गाविशेषणेस्ततःपरं निवेशकरणाशक्यत्वं द्योत्यते ॥ २१॥ सचन्द्रति । सचन्द्रो यस्तारागणः तेन मण्डि तम् ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अशीतितमः सर्गः ॥८॥ नक्षत्रेविति । निवेशान शिबिराणि ॥ १७ ॥ बहित्यादिश्लोकवयमेकं वाक्यम् । बहुसुचयाः बहवः पांमुसदृशसिकतामयाः येषु ते तथोक्ताः । इन्द्रकीलमतिमाः इन्द्रकीलपर्वतसदृशाः । प्रतोलीपरिशोभिताः प्रतोली रथ्या । बिटङ्काप्रविमानकैः विटङ्को गृहकपोतपालिका तदुपरि निर्मितेः शिलाग्रहेरित्यर्थः । यद्वा विटहवामा रविमानः समुचितैः निवेशास्ते बभुः ॥ १८-२०॥ जाइबीमित्यादिश्लोकद्वयमेकं वाक्यम् । जाहवीं समासाद्य स नरेन्दमागों व्यराजतेतिसम्बन्धः॥२१॥२२ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकारुयायाम् अयोध्याकाण्डव्याख्यायाम् अशीतितमः सर्गः ॥ ८॥
॥
For Private And Personal Use Only