________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बन्धनीयान् जलप्रदेशान् । बबन्धुः सेनासन्तरणार्थ सेतुभिर्वबन्धुः । क्षोद्यान क्षोदानि शर्कराभूयिष्ठप्रदेशान् संचुक्षुदुः चूर्णयामासुः । भेदनीयान कच्छादिबहुजलप्रदेशान् जलनिर्गमनार्थ बिभिदुः ॥ १०॥ परिवाहान् अल्पप्रवाहान् जलोच्छासान् । बन्धनेन बहूदकान चकुः । यदा परिवाहान
बबन्धुबन्धनीयांश्च क्षोद्यान सञ्चक्षुदुस्तदा । बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा ॥ १०॥ अचिरेणैव कालेन परिवाहान बहूदकान् । चक्रुर्बहुविधाकारान् सागरप्रतिमान बहून् ॥ ११॥ निर्जलेषु च देशेषु खानयामासु रुत्तमान् । उदपानान् बहुविधान् वेदिकापरिमण्डितान् ॥ १२॥ ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः । मत्तो ष्ट द्विजगणः पताकाभिरलंकृतः ॥ १३ ॥ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः । बह्वशोभत सेनायाः पन्थाः सुरपथोपमः॥ १४ ॥ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः । रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १५॥
यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः । भूयस्तं शोभयामासुर्भूषाभिभूषणोपमम् ॥ १६ ॥ दूरस्थतटाकप्रवर्तितान् बहुविधाकारान् सोपानावताराद्यनेकप्रकारानित्यर्थः ॥ ११॥ उदपानान कूपान् । “पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुसि वा" इत्यमरः । बहुविधान् नरगजतुरगादिपानयोग्यसरोवाप्यादिभेदेन बहुविधान् । वेदिकापरिमण्डितान जलपानकाले विश्रान्त्यर्थ तीरे वेदिकालंकृ तान् ॥ १२ ॥ ससुघेत्यादिश्लोकद्वयमेकान्वयम् । सुघालिप्तकुट्टिमतलोपेतः “कुट्टिमोऽस्त्री निबद्धा भूः" इत्यमरः । प्रपुष्पितमहीरुहः जलसेचने नेति शेषः । चन्दनोदकसंसिक्तः विश्रान्तिप्रदेशेषु चन्दनयुक्तवारिसिक्तः । नानाकुसुमभूषितः प्रकीर्णनानापुष्पशोभितः ॥१३॥१४॥ अथ मार्गकरणान अन्तरम् । अधिकृताः मार्गशिबिरादिकरणे नियुक्ताः। युक्ताः परस्परं युक्ताः। बहुस्वादुफलेषु रमणीयेषु देशेषु भरतस्य यो निवेशः यादृशाकारविशिष्टो विधमन्ति विक्षेपन्ति, छिन्दन्तीति यावत् । इति योजना ॥८॥९॥ बबन्धुरिति । बन्धनीयान बबन्धुः पल्बलक्षुद्रनदीदुर्गमप्रदेशान सेतुभिर्थबन्धुरित्यर्थःक्षोद्यान क्षुद्रशिलाभूयिष्ठप्रदेशान् सधुक्षुदुः चूर्णयामासुः। भेदनीयान् तटाकादिजलप्रदेशान् जलनिर्गमार्थ विभिदुः ।। १० । अचिरेणेति । परिवाहान अल्पवा हान बन्धनेन बहूदकान् चक्रुः ॥११॥ निर्जलेष्विति । उदपानान् कूपान् । वेदिकापरिमाण्डितान वेदिकाभिः परितो मण्डितान् ॥ १२॥ ससुधेत्यादिश्लोकद्यमेकं वाक्यम् । सुधाकुट्टिमतलः सुधालिप्तबद्धभूप्रदेशः ॥ १३ ॥ १४ ॥ आज्ञाप्येत्यादिश्लोकद्वयमेकं वाक्यम् । अथ मार्गकरणानन्तरम् अधिकृताः मार्गशिबिरादिकरण नियुक्ताः परस्परं सङ्गताः। बहुस्वादुफलेषु रमणीयेषु देशेषु भरतस्य यो निवेशः याहशाकारविशिष्टो निवेशः अभिप्रेतः तं नादृशसन्निवेशं यथाज्ञप्ति यथामति आज्ञाप्य कर्तुमिति शेषः। भूषणोपमं भूषणसदृशम्, अतिरमणीयमिति यावत् । भूषाभिः वितानकनककलशध्वजादिभिःभूयो भूषयामासुरिति योजना॥१५॥१६॥
For Private And Personal Use Only