________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अथेत्यादि । भूमिप्रदेशज्ञाः निनोन्नतादिप्रदेशज्ञाः । यद्वा नानादेशविदः । सूत्रकर्मविशारदाः सूत्रकर्मणि निर्जलप्रदेशेष्वगाघवापीकूपादिजलोद्धारसूत्र। कर्मणि विशारदाः समाः । यद्वा सूत्रैः कर्म सूत्रकर्म तत्र विशारदाः समर्थाः, तन्तुवाया इत्यर्थः। स्वकर्माभिरताः मार्गरक्षणादिस्वकर्मसावधानाः ।
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः। स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥१॥ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षकाः॥२॥ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा । समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥३॥
स तु हर्षोत्तमुद्देशं जनोपो विपुलः प्रयान् । अशोभत महावेगः समुद्र इव पर्वणि ॥४॥ खनकाः खननोपजीविनः, सुरङ्गादिकृत इत्यर्थः । यन्त्रकाः महाकुल्यादितरणाय काष्ठादिना उपयन्त्रप्रवर्तकाः वागरिका वा । कान्तिकाः कर्मणि अन्तोऽवसानमेषामस्तीति कर्मान्तिकाः परिकल्पितकर्मकारिणः, भृतिजीविन इति यावत् । स्थपतयः कारवः “स्थपतिः कारुभेदेपि" इत्यमरः । पुरुषाः अध्यक्षराजपुरुषाः । यन्त्रकोविदाः क्षेपणीयादियन्त्रकरणसमर्थाः। वर्द्धकयस्तक्षाणः। “तक्षा तु वदकिः" इत्यमरः। मार्गिणः मार्गसमी करणसमर्थाः । वृक्षतक्षकाः मार्गनिरोधकवृक्षच्छेदकाः। कूपकाराः कूपनिर्माणसमर्थाः । सुधाकाराः प्रासादस्थलक्षित्यादिलेपनकराः । वंशकर्मक्रतः वंशैः कटपिटकादिकर्मकराः । समर्थाः कार्यान्तरेषु समर्थाः । द्रष्टारः पूर्वानुभूतमार्गाः, मार्गप्रदर्शका इति यावत् ॥ १-३॥ हर्षात कर्मकरणस्य दुःखात्मकत्वेपि जनौषस्य हृष्टत्वं रामदर्शनकुतूहलात् । तमुद्देशं प्रयान् रामाधिष्ठितप्रदेशमुद्दिश्य गच्छन् ॥१॥ अधेत्यादि । सूत्रकर्मविशारदाः शिबिरादिनिर्माणे सूत्रग्रहणकुशलाः । यद्वा सूत्रक्रियमाणं कर्म तत्र विशारदाः, तन्तुवाया इत्यर्थः । खनकाः खननेनोपजीविनः । यन्त्रकाः मृगपक्षिग्रहणसाधनयन्त्रकारः, वागुरिका इतिं यावत् । कर्मान्तिकाः कर्मणाम् अन्तः अवसानमस्तीति तथा, भतिजीवना इत्यर्थः । स्थपतयः पुरादि कृतः प्रधानवर्धकयः पुरुषाः यन्त्रकोविदाः क्षेपणीयादियन्त्रकरणकुशलाः जलयन्त्रादिकृतो वा । वर्धकयस्तक्ष्णाः मार्गसमीकरणसमर्थाः । वृक्षतक्षकाः मार्ग निरोधकवृक्षच्छेदकाः । सुधाकाराः प्रासादादिषु सुधालेपनकारकाः । वंशकर्मकृतः वंशैः कटशूर्पादिकर्मकृतः । द्रष्टारः मार्गप्रदर्शकाः ॥१-३॥ स त्विति । हर्षात
For Private And Personal Use Only