SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भ. ISलेशे महीगुणे" इति वैजयन्ती ॥ १२॥ कियतामिति । तत्समीपगमनायति शेषः । विषमाणि निनोवतस्थलानि समानि क्रियन्ताम् । पथि दुर्ग...| विचारकाः मार्गे दुर्गस्थलशोधकाः । यद्वा दुर्गाभिज्ञा रक्षिषः ॥ १३ ॥ रामहेतोः अनुत्तमं श्रीमद्वाक्यम् । एवं सम्भावमाणं प्रत्युवाचेतिसम्बन्धः। स०७९ १२४६॥ ॥१४॥ पद्मा पद्मालया श्रीः ते उपतिष्ठतां त्वत्समीपे अनपायिनी तिष्ठवित्यर्थः । नृपसुते नृपसुताय । स एव सुवः ज्येष्ठत्वात् ।“ इतरे कामजाः क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ १३॥ एवं सम्भाष माणं तं रामहेतोर्नृपात्मजम् । प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् ॥ १४॥ एवं ते भाषमाणस्य पना श्री रुपतिष्ठताम् । यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि॥ १५॥अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च । प्रहर्षजास्तं प्रति बाप्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः ॥ १६ ॥ ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः । पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः ॥ १७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥ स्मृताः" इति वचनादिति भावः ॥ १५॥ संश्रवणे रामानयनप्रतिज्ञाविषये । “आगूसङ्गरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा च" इति हलायुधः।। निशम्य स्थितानामिति शेपः । आर्यानननेत्रसम्भवा इत्यत्र आर्येत्यविभक्तिकनिर्देशः । आर्याणामिति यावत् ॥ १६॥ हे नरवर ! तव वचनात् । शिल्पिवर्गः भक्तिमान् जनः रक्षकश्च पन्थानं प्रति व्यादिष्टाः आज्ञप्ताः इतीदमूचुरिति सम्बन्धः ॥१७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनाशीतितमः ॥ ७९ ॥ विषमाणि विषमस्थलानि समानि क्रियन्ताम् । पथि दुर्गविचारकाः पथि दुर्गमेषु विषमेषु जनान् चारयन्ति तथा ॥ १३ ॥ एवमिति । रामहेतोरनुत्तमं श्रीमद्वाक्य मेवं सम्भाषमाणं तं प्रत्युवाचेति सम्बन्धः ॥ १४ ॥ एवमिति । पद्मा पद्महस्ता ते उपतिष्ठताम् त्वत्समीपे अनपायिनी भववित्यर्थः । ज्येष्ठे नृपतुत इति चतुये सप्तमी ।। १५ ॥ अनुत्तममिति । संश्रवणे रामानयनप्रतिज्ञाविषये अनुत्तमं नृपात्मजप्रभाषितं तद्वचनं निशम्य । तं प्रति भरतमुद्दिश्य प्रहर्षजाः आर्यानननेत्र म ॥२४॥ सम्भवाः बिन्दवः निपेतुरिति सम्बन्धः ॥ १६ ॥ उचुरिति । इदं क्रियनां शिल्पिभिः पन्था इत्युक्तं भरतवाक्यं निशम्य ते सामात्या दृष्टा ऊचुः। वचनप्रकार IN मेवाह पन्थानमिति।व्यादिष्टः आज्ञप्तः ॥१७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्याय एकोनाशीतितमःसर्गः ॥७॥ ॥२४६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy