________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राज्यस्थजनजातमन्योन्यं न द्रुह्यतीत्यर्थः ॥ ३ ॥ प्रकृत्याभिमुख्यमप्यस्तीत्याह-अभिषेचनिकमिति । अभिषेचनिकम् अभिषेकप्रयोजनं पदार्थ जातम् । स्वजनः अमात्यादिः । श्रेणयः नैगमाः प्रतीक्षन्त इति विपरिणामः ॥ ४ ॥ ५ ॥ भाण्डम् उपकरणम् ॥ ६ ॥ राजता राजत्वम् ॥ ७ ॥ आभिषेचनिकं सर्वमिदमादाय राघव । प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ||४|| राज्यं गृहाण भरत पितृ पैतामहं ध्रुवम् । अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ॥५॥ [ एवमुक्तः शुभं वाक्यं द्युतिमान् सत्यवाक्छुचिः। ] आभिषेचनिकं भाण्डं कृत्वा सर्वे प्रदक्षिणम् । भरतस्तं जनं सर्वे प्रत्युवाच धृतव्रतः ॥ ६ ॥ ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः । नैवं भवन्तो मां वक्तुमईन्ति कुशला जनाः ॥ ७ ॥ रामः पूर्वो हि नो भ्राता भवि प्यति महीपतिः । अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ ८ ॥ युज्यतां महती सेना चतुरङ्गमहाबला । आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ॥ ९ ॥ आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् । पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ १० ॥ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् । आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ ११ ॥ न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् । वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ॥ १२ ॥ वत्स्यामि रामप्रतिनिधित्वेनेति शेषः ॥ ८ ॥ युज्यतामिति । आनयिष्यामीत्यत्र इडार्षः || ९ || उपस्कृतं संस्कृतम् । उपकरणमितिवार्थः । रामहेतोः | रामाभिषेकार्थम् ॥ १० ॥ पुरस्कृतं पूजितम् " पुरस्कृतः पूजिते स्यादभियुक्तेऽग्रतः कृते " इति वैजयन्ती । यद्वा पुरस्कृतं स्वजनदर्शनेनाभि मुखीकृतमित्यर्थः । अध्वरात् याम शालायाः । व्यक त्रेताग्निम् ॥ ११ ॥ मातृगन्धिनीं केवलमातृव्यपदेशाम् लेशमात्रमातृभावामिति वा । “ गन्धो मात्यादीनामैकमत्येन अनायकमप्येतद्राज्यं नापराप्नोति राज्यस्थजनजातमन्योन्यं न द्रुह्यतीत्यर्थः । यद्वा एवं राज्यमनायकमपि सङ्गत्या दैवगत्या नापराप्नोति न ॐ विनश्यति सर्वमपि राज्यं नायकरहितं सवं नश्यति इदं तु राज्यं दैवयोगेन न नश्यति अतस्त्वं नो राजा भवेति सम्बन्धः ॥ ३ ॥ आभिषेचनिकमिति । श्रेणयः वीथिमुख्याः ॥ ४ ॥ ५ ॥ आभिषेचनिकं भाण्डम् अभिषेकोपयुक्तमङ्गलद्रव्यजातम् ॥ ६ ॥ ज्येष्ठस्थेति । राजता राजत्वम् । आनयिष्यामि आनेष्यामि ॥ ७९ ॥ उप स्कृतं संस्कृतम् ॥ १० ॥ तत्रेति । पुरस्कृतम् अग्रतः कृतम् । अध्वरात् यागशालायाः ॥ ११ ॥ मातृगन्धिनीम् केवलमातृव्यपदेशाम, मातृसंज्ञामात्रामित्यर्थः ॥ १२ ॥
For Private And Personal Use Only