________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Mतत इति । विपलायतेति “उपसर्गस्थायतो" इति रेफस्य लत्वभ ॥ १३॥ आमन्त्रयतेति । आमन्त्रयत अन्योन्यमाह्वयत् । तस्याः सर्वः सखीजनल कृत्स्नः तदितरः सर्वोपि जनः यथा येन प्रकारेणायं शत्रुघ्नः उपक्रान्तः यक्ष नः निश्शेषान्करिष्यति । जनापेक्षया पुंस्त्वम् ॥१॥वदान्यां बल्गुवाचम् ।
ततःसुभृशसन्तप्तस्तस्याः सर्वः सखीजनः । क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः ॥१३॥ आमन्त्रयत कृत्स्रश्च तस्याः सर्वः सखीजनः । यथायं समुपक्रान्तो निश्शेषान्नः करिष्यति ॥ १४॥ सानुक्रोश वदान्यां च धर्मज्ञां च यशस्विनीम् । कोसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः॥१५॥ स च रोषण ताम्राक्षः शत्रुघ्नः शत्रुतापनः। विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ॥ १६॥ तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः। चित्रं बहुविधं भाण्डं पृथिव्यां तयशीर्यत ॥ १७॥ तेन भाण्डेन संस्तीर्ण श्रीमद्राजनिवेशनम् । अशोभत तदा भूयः शारदं गगनं यथा ॥ १८॥ स बली बलवत्क्रोधादगृहीत्वा पुरुषर्षभः । कैकेयीमभिनिर्भय॑ बभाषे परुषं वचः ॥१९॥ तेर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता। शत्रन्नभयसन्त्रस्ता पुत्रं शरणमागता ॥ २० ॥ तां प्रेक्ष्य भरतः क्रुद्धं
शत्रुघ्नमिदमब्रवीत् । अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥२१॥ "वदान्यो वल्गुवागपि" इति वैजयन्ती। कौसल्यां शरणं याम सा नो ध्रुवा गतिरस्त्वित्यन्योन्यमाह्वयदित्यन्वयः ॥ १५॥१६॥ तस्या इति । भाण्डं भूषणं" वणिमूलधने पात्रे भाण्डं भूषाश्वभूषयोः” इति वैजयन्ती । पृथिव्यां तब्धशीर्यत विशीर्णमासीत् ( पाठभेदः । पृथिव्यां तद्विशीयते विशीर्ण मासीत् ) ॥ १७॥ तेनेति । शारदं प्रसन्ननक्षत्रमित्यर्थः ॥१८॥स इति । बलवत्क्रोधात् अतीव कोधात् । कैकेयीमभिनिर्भत्स्यत्यनेन मन्थरा मोचनार्थ तदा कैकेयी समागतेत्यवगम्यते ॥ १९ ॥ तरिति । शत्रुघ्रभयमन्त्रस्ता पुत्रं शरणमागतेत्यनेन भर्त्सनानन्तरं तां प्रहतुमप्युद्युक्तवानिति मुच्यते ॥ २० ॥ तामिति । क्षम्यतामित्थत्रवीदित्यन्वयः ॥२१॥ कृत इति । वने रामः । अभूदिति शेषः । कुरु शिक्षणमिति शेषः ॥ ९-१३ ॥ आमन्त्रयतेति । आमन्त्रयत मन्त्रविचारमकरोत् । तदेवाह यथेति सार्धेन । वदान्या वल्गुवाचम् ॥१४-१६॥ तस्या इति । भाण्डं भूषणम् ॥ १७ ॥ १८॥ स इति । कैकेयीमभिनिर्भय॑ कुब्जामोचनार्थमागतामिति शेषः ॥ १९ ॥ तैरिति । पुत्रं शरण मागतेत्यनेन कुब्जामोचनार्थमिति ज्ञेयम् ॥ २० ॥ तामिनि । सर्वभूतानां मध्ये प्रमदा अवध्या अतः क्षम्यतामिति शत्रुघ्नमत्रवादिति सम्बन्धः ॥२१॥
For Private And Personal Use Only