SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir बा.रा.भ. टी.अ.का. स. ७८ मोचयते किंन मोचितवान् इदमप्यपरमाश्चर्यमिति भावः ॥३॥ पितृनिग्रहे दोषो नास्तीत्याशनां परिहरति-पूर्वमित्यादिना । यो राजा नायर्या वशं गतः उत्पथं समारूढः अपथं प्राप्तः सः नयानयो नीत्यनीती समवेक्ष्य सम्यविचार्य पूर्वमेव अन्यायप्रवृत्तिसमापनात् पूर्वमेव निग्राह्य इति योजना ॥ पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयो। उत्पथं यःसमारूढो नार्या राजा वशं गतः॥४॥ इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे। प्रारद्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषितां ॥५॥ लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती। विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥६॥ मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः । बभासे बहुभिर्बद्धा रज्जु बद्धेव वानरी ॥ ७॥ तां समीक्ष्य तदा द्वारस्थाः सुभृशं पापकारिणीम् । गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेद यन् ॥ ८॥ यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता । सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥९॥ शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः। अन्तःपुरचरान् सर्वानित्युवाच धृतवतः ॥१०॥ तीवमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः । यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ ११ ॥ एवमुक्ता तु तेनाशु सखीजनसमा वृता। गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ॥ १२॥ । इतीति । कुब्जा प्राद्वारेऽभूत् स्वाभिलषितो भरताभिषेकः कदा भविष्यतीति अवप्तरं प्रतीक्षमाणा भरतशत्रुघ्नाधिष्ठितराजगृहस्य प्रारद्वारे देवादागता |ऽभूत् ॥५॥ लिप्तति । चन्दनसारण चन्दनपङ्केन । राजवस्राणि राजाईवखाणि केकेयीदत्तानि । कञ्चकान्तरीयोत्तरीयादिभेदाद्ववचनम् । तेस्तैरिति तत्तदवयवोचितत्वमुच्यते । एकेकाभरणे रत्नखचिततादिवविध्यमाह विविधेरिति । विविधामिति क्रियाविशेषणम् । तेन भूषणसंस्थानविशेष उच्यते । ॥६॥ मेखलादामभिरिति भूषणशब्दोपि मेखलादामभिन्नपरः गोबलीवर्दन्यायात् । अन्यैः मेखलाप्रदेशधारणीयैः । बद्धति विशेषणात् भूषणानि बन्धन स्थानीयानि नतु शोभाकराणीत्युक्तम् ॥७॥ तामिति । अकरुणां निर्दयाम् ॥८॥ यस्या इति । वने अभूदितिशेषः । कुरु शिक्षणमितिशेषः॥९-१२॥ कृतवानित्याह बलवानिति । किं न मोचयते स्म प्रव्राजनादिति शेषः ॥३॥ पितृनिग्रहे दोषोऽस्तीत्याशय परिहरति-पूर्वमिति । यो राजा नार्या वशं गतः। उत्पथ समारूढः अपथं प्राप्तस्सन् । नयानयो न्यायान्यायमवक्ष्य सम्पम्बिचार्य पूर्वमेव निग्राह्य इति योजना ॥४-७॥ तामिति । अकरुणामिति छेदः ॥८॥ यस्याः For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy