________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
यन्त्रपतनाद ध्वजपतनम् एवं राजपतनात् भरतपतनमिति भावः॥९॥ अभिपेतुरिति ।अमात्याः ज्ञातयः । शुचित्रतं तम् ।अन्तकाले पुण्यक्षयकाले निपतितं ययातिम् ऋषयः दौहित्रभूता इव अभिपेतुः॥१०॥ शत्रुघ्न इति । भरतपतनावधि शत्रुघ्नस्य धैर्य स्थितम्, तत्पतनानन्तरं तु भूमिपाल । मनुस्मरन्यपतत् ॥ ११ ॥ उन्मत्त इति । गुणाङ्गानि गुणानङ्गानि चेत्यर्थः। तदातदा तानितानि तत्तत्कालोचिताभिमतप्रदानोपलालनकराणि गुणा
अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् । अन्तकाले निपतितं ययातिमृषयो यथा ॥ १० ॥ शत्रुघ्न श्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् । विसंज्ञो न्यपतद्रूमौ भूमिपालमनुस्मरन् ॥ ११॥ उन्मत्त इव निश्चेता विल लाप सुदुःखितः। स्मृत्वा पितुर्गुणाङ्गानि तानितानि तदातदा ॥ १२॥ मन्थराप्रभवस्तीवः कैकेयीग्राहसङ्कलः। वरदानमयोक्षोभ्योऽमजयच्छोकसागरः ॥ १३ ॥ सुकुमारं च बालं च सततं लालितं त्वया । कतात भरतं हित्वा विलपन्तं गतो भवान् ॥ १४॥ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च । प्रवारयसि नः सर्वास्तन्नः कोऽन्यः करिष्यति ॥ १५॥अवदारणकाले तु पृथिवी नावदीर्यते । या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ॥ १६ ॥ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते । किं मे जीवितसामर्थ्य प्रवेक्ष्यामि हुताशनम् ॥ १७॥ गानि ॥ १२॥ मन्थरेति सगरव्यावृत्तिः । तीव्रः अगाध इति यावत् । अमजयत् अस्मानितिशेषः ॥ १३ ॥ १४ ॥ नन्विति । प्रवारयसि एष्वाभरणादिषु किं तवेष्टं गृहाणेति प्रकर्षेण स्वयं ग्राहयासि तत्प्रवारणम् ॥ १५ ॥ अवदारणोत । या पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते न भिद्यते । स्वयमिति शेषः । सा अवदारणकाले तु प्रलयकालेपि नावदीयंत नावदीयतेत्यर्थः । ( पाठभेदः । अवदारणकाले त्वविहीनतया अबदारणस्य प्राप्तकाले । अवदारणकालत्वे हेतुः त्वयाविहीनेति । धर्मज्ञन महात्मना त्वया राज्ञा एतादृशगुणाव्येन त्वयेत्यर्थः । विहीना या सा पृथ्वी अवदारणकाले नावदीर्यत इत्यन्वयः) ॥ १६॥ पितरीति । जीवितसामथ्य जीवनशक्तिः ॥ १७॥ १८ ॥ पपातेति सम्बन्धः ॥९॥ अभिपेतुरिति । अन्तकाले पुण्यक्षयकाले ॥१०॥११॥ उन्मत्त इति । तदा तदा तानि तानि गुणाङ्गानि तत्कालोचिताभिमतप्रदानोप लालनकरणानीत्यर्थः ॥ १२ ॥ मन्थरेति । अमजयत् अम्मानिति शेषः॥ १२ ॥ १४ ॥ नन्विति । प्रवारयसि प्रकर्षेण स्वयं ग्राहयसि ॥ १५ ॥ अवदारणेति । या
For Private And Personal Use Only