SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie बा.रा.भ- तत हात । शब्दाना ॥२४२॥ स०७७ तत इति । शब्दापिहितकण्ठः रोदनध्वनिना व्याप्त कण्ठः । शोधनार्थ स्थलशोधनार्थम् “दहनदेशमुदकुम्भैः स्ववोक्षति" इतिसूत्रात् अस्थि सञ्चयनार्थमित्यर्थः । सावशेषास्थिनिचय इति वक्ष्यमाणत्वात् । त्रयोदशेप्यस्थिसञ्चयनं सूत्रान्ते दृश्यते । यथाह बोधायनः “द्वितीयेऽह्नि युग्मदिवसे । ततः प्रभातसमये दिवसेऽथ त्रयोदशे । विललाप महाबाहुर्भरतः शोकमूञ्छितः । शब्दापिहितकण्ठस्तु शोधनार्थ मुपागतः॥४॥ चितामूले पितुर्वाक्यमिदमाह सुदुःखितः॥ ५॥ तात यस्मिनिसृष्टोऽहं त्वया भ्रातरि राघवे । तस्मिन्वनं प्रवजिते शून्ये त्यक्तोऽस्म्यहं त्वया ॥६॥ यस्या गतिरनाथायाः पुत्रःप्रवाजितो वनम् । तामम्बा तात कौसल्या त्यक्त्वा त्वं व गतो नृप ॥ ७॥ दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् । पितुः शरीरनिर्वाणं निष्टनन् विषसाद सः॥८॥ स तु दृष्ट्वा रुदन दीनः पपात धरणीतले। उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः॥९॥ Mवर्द्धमासान्मासानृतून संवत्सरं वा सञ्चयनं कुर्यात् " इति ॥ ४॥ चितामूल इत्यर्धम् ॥५॥ तातेति । निसृष्टः दत्तः । प्रबजिते प्रवाजिते । छान्दसो| हस्वः ॥६॥७॥ दृष्ट्वेति । भस्मारुणं भस्मयुक्तमरुणं च । अरुणत्वमतिदग्धत्वात् । पितुः शरीरनिर्वाणं शरीरं निर्वाप्यते विनाश्यते अस्मिन्निति | शरीरनिर्वाणम् । अधिकरणे ल्युट् । “निर्वाणो निवृते मोक्षे विनाशे गजमबने" इति वैजयन्ती । निष्टनन् नितरां स्तनन् । “अभिनिसस्तनः शब्दसंज्ञा याम्" इति षत्वम् । (पाठभेदः । भस्मारुणं भस्मना अरुणम्, अव्यक्तरागम् । दग्धास्थिस्थानमण्डलं दग्धानामस्था यानि स्थानानि विन्यासविशेषाः। तेषां मण्डलं समूहं दृष्ट्वा अस्थिमण्डलं दृष्ट्वेत्यर्थसिद्धम् । पितुः शरीरनिर्वाणं शरीरविनाशं प्रति निष्टनन् नितरां रोदनशब्दं कुर्वन् ) विषसाद दुःखि तोऽभूत् ॥८॥स इति । उत्थाप्यमानः रज्जुभिरुत्थाप्यमानः ।च्युतः सस्तः शकस्य यन्त्रबद्धो वजो यन्त्रध्वजः रज्जुयुक्तो धज इव पपात, यथा इति । बास्तिकं छागसमहम् ।शुक्त शुद्धम, दानाहमित्यर्थः । और्वदेहिक परलोकक्रियामुद्दिश्य ददाविति सम्बन्धः । शोधनार्थम् अस्थिसञ्चयनार्थम् । शब्दा पिहितकण्ठः शब्देन रोदनशब्देन अपिहितम् आवृतं कण्ठं यस्य सः ॥२-७॥ भस्मारुणं भस्मयुक्तमरुणम्, अरुणत्वमतिदग्धत्वात् । स्थानमण्डलं चितास्थान मण्डलम् । पितुः शरीरनिर्वाणम् शरीरं निर्वाप्यतेऽस्मित्रिति शरीरनिर्वापणम् । दग्धास्थि दग्धानि अस्थीनि यस्मिन् तत् तञ्च चितामूलं दृष्ट्वा निष्टनन् नितरी स्तनन् विलपनित्यर्थः । विषसादेति सम्बन्धः ॥८॥ स त्विति । उत्थाप्यमानः रज्ञाभिरुत्थाप्यमानः च्युताम्रस्तः शक्रयन्त्रध्वजः यन्त्रबद्धो ध्वजः यन्त्रध्वज इव ॥२४२॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy