________________
Shil Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्त्रिया" इत्येकशेषः । दशाई “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । भूमौ शयाना इति शेषः। “कियल्लन्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक्" इत्याशीचिनां पृथक्शयनं हि विहितम् । दुःखमाशोचं व्यनयन्त अगमयन्। ननु षोडशाहेन (द्वादशाइन )भूपाला इति क्षत्रियस्य (द्वादशाहा ) पोड शाहाशौचसद्भावात् कथं दशाहमित्युच्यत इतिचेत् ? सत्यम्, "क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः” इत्यादिविशेषशास्त्रानुसारेणोक्तमिति न ।
ततो दशाहेऽतिगते कृतशौचो नृपात्मजः। द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ॥१॥ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् । वासांसि च महार्हाणि रत्नानि विविधानि च ॥२॥ बास्तिकं बहुशुक्लै च गाश्चापि शतश ।
स्तदा । दासीदासं च यानं च वेश्मानि सुमहान्ति च । ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौद्धहिकम् ॥ ३॥ दोषः । अत्र स्त्रीणां प्रेतप्रदक्षिणमुदकदानं च सूत्रान्तरोक्तं ज्ञेयम् । तथा चितास्थस्य प्रदक्षिणं च । अत एवाह बोधायनः “प्रदक्षिणमपि बान्धवाः कुर्वन्ति एवं मार्गपि चितामारोप्य चितायामेवेत्येके " इति । अत्र प्रेतेन सहाय्यानयनं चितारोपणं समन्वकमनिदानं प्रदक्षिणीकरणमुदकदानं दशाहमाशोचेन भूमौ शयनमित्येतावन्मात्र देशकुलसूत्रभेदेन और्ध्वदेहिकविशेष उक्त इति वा प्रधानोक्तिः सर्वग्रहणार्थमितिवा ज्ञेयम् ॥२३॥ इति श्रीगोविन्दराज. श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥७६ ॥ ततइति । दशाहे अतिगते अतीते, एकादशाह इत्यर्थः । कृतशौचः कृतशौचापादकपुण्याहवाचननवश्रादादिकइत्यर्थः। द्वादशेऽहनि श्राद्धकर्माणि षोडशमासिकानि सपिण्डीकरणान्तानीत्यर्थः । अकारयत् अकरोदित्यर्थः । स्वार्थे णिच ॥१॥२॥ बास्तिकमित्यादि । बस्तानां छागानां समूहो बास्तिकम् । छान्दसष्ठक् । “अजा छागीशुभच्छागवस्तच्छाग लका अजे” इत्यमरः । बहुशुक्ल मिति छागविशेषणं रजतं वा, पितृप्रियत्वात् । “शुक्लो योगान्तरे श्वेते शुक्के च रजते तथा” इतिविश्वः । दासीदासम् । गवाश्वप्रभृतित्वादेकवद्भावः। उई देहादूईदेहः तत्रभवमोईदेहिकम्। “ ऊर्द्धदेहाचेति वक्तव्यम्" इति ठक् ॥३॥ शेषः । दुःखम् आशौचं व्यनयन्त अगमयन् । ननु क्षत्रस्य षोडशाहानीति क्षत्रियस्य षोडशाहाशीचसद्भावात् कथं दशाहमित्युच्यत इति चेत ? सत्यम्, "क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः" इत्यादिविशेषशास्त्रानुसारेणोक्तमिति न दोषः ॥ २३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण अयोध्याकाण्डप्याख्यायां पदसप्ततितमः सर्गः ॥७६॥ तत इति । द्वादशेऽहनि श्राद्धकर्माग्यकारयत् एकादशेऽहनि कर्तव्यश्राद्धकरणपूर्वकं द्वादशेऽहनि श्राद्धकर्माण्यकरोदित्यर्थः ॥१॥ ब्राह्मणेभ्परा
For Private And Personal Use Only