________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandie
बा.रा.भ. ॥२४॥
चन्दनागरुनिसानिति । चन्दनागरुनिसान् । निर्यासो गुग्गुलुः । “गुग्गुलुः कालनिर्यासो" इतिनिघण्टुः । चन्दनागरुजनितधूपद्रव्याणीति यावत् । टी.अ.का. सरलं धूपसरलम् । पद्मकं सुरभिकाष्ठविशेषम् । क्षेपयन्ति पुरतः पार्श्वतश्च प्रियमाणसौवर्णराजताङ्गारधानीषु धूपार्थमिति शेषः । चन्दनादीनि गन्धा २०७६
चन्दनागरुनिर्यासान सरलं पद्मकं तथा। देवदारूणि चाहत्य क्षेपयन्ति तथा परे ॥ १६॥ गन्धानुच्चावांश्चान्यान तत्र गत्वाथ भूमिपम् । ततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ १७ ॥ तथा हुताशनं दत्त्वा जेपुस्तस्य त मृत्विजः। जगुश्च ते यथाशास्त्रंतत्र सामानि सामगाः॥१८॥ शिबिकाभिश्च यानैश्च यथार्ह तस्य योषितः। नगरान्नि ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ १९ ॥ प्रसव्यं चापि तं चक्रुर्ऋत्विजोऽग्निचितं नृपम् । स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥२०॥ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । आर्तानां करुणं काले कोशन्तीनां सहस्रशः ॥२१॥ ततो रुदन्त्यो विवशा विलप्य च पुनःपुनः । यानेभ्यः सरयूतीरमवतेस्र्वराङ्गनाः ॥ २२ ॥ कृत्वोदकंत भरतेन सार्द्ध नृपाङ्गना मन्त्रिपुरोहिताश्च । पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम्
॥२३॥ इत्यार्षे श्रीरामायणे आदिकाव्ये श्रीमदयोध्याकाण्डे षट्सप्ततितमः सर्गः॥ ७६ ॥ न्तानि चिताकाष्ठद्रव्याणीत्येव तु युक्तम् । तदा क्षेपयन्ति दहनार्थ चितामकुर्वन्नित्यर्थः॥१६॥तत्र गत्वाथ भूमिपमित्युत्तरशेषः । अथ चिताकल्पनानन्त परम् । तत्र चितासमीपे गत्वा तं भूमिपं चितामध्ये ततः शिबिकायाः, उद्धृत्येतिशेषः । संवेशयामासुः शाययामासुः ।। १७॥ तथेति । हुताशनं दत्त्वा
भरतेन दापयित्वा । जेपुः पैतृमेधिकमन्त्रविशेषानिति शेषः । तस्य, परमगत्यमिति शेषः । तमिति हुताशनविशेषणम् । हुतं प्रेतानिमित्यर्थः। ते उदातृप्रभृतयः ऋत्विजः ॥ १८॥ शिविकाभिरिति । यानरश्वादिभिः । वृदैः परिचारकः॥ १९॥ प्रसव्यमिति । अनिचितम अग्निचयनं कृतवन्तं त। नृपम् ।ऋत्विजः खियश्च प्रसव्यं सव्यापसव्यं प्रदक्षिणमप्रदक्षिणं च चक्रुः । ( पाठभेदः। प्रसव्यम् अप्रदक्षिणम् इदं प्रदक्षिणस्याप्युपलक्षणम् ) भरतश्चे त्यर्थसिद्धम् । इदं चाग्निदानात्पूर्व शिबिकास्थे प्रेते क्रमस्याविवक्षितत्वादत्रोक्तं देशविशेषाचारोऽयं वा ॥२-२२॥ कृत्येति । ताश्च ते च ते।"पुमाम् ॥ चन्दनेति । निर्यासः कर्पूरगुग्गुल्वादिधपद्व्यविशेषः । सरलं धूपसरलम् । पनकं सुरभिकाष्ठविशेषः ॥ १६॥ १७ ॥ तथेति । जेपुः ऋग्यजुस्सामादिकमिति शेषः ॥ १८ ॥ १९ ॥ प्रसष्यमिति । प्रसव्यमप्रदक्षिणम् । अग्निचितं अनि चितवन्तम, अश्वमेधादियज्ञकर्तारमित्यर्थः ॥ २०-२२ ॥ कृत्वेति । भूमौ शयाना इति
For Private And Personal Use Only