________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyarmandir
विललाप ॥४॥५॥ किमिति । किं ते व्यवसितं त्वया किमद्य व्यवसितम्, स्वर्गगमनायतिशेषः॥ ६ ॥७॥ योगक्षेमामिति । ते पुरे अयोध्यायां का जनः योगक्षेमं स्वकीयपुरयोगक्षेमं कल्पयिता करिष्यति । स्वः स्वर्गम् ॥८-१० ॥ प्रेतकार्याणीति । विशांपतेः प्रजानां पत्युः॥ ११ ॥
किं ते व्यवसितं राजन् प्रोषिते मय्यनागते । विवास्य रामंधर्मज्ञं लक्ष्मणं च महाबलम् ॥६॥ व यास्यसि महाराज हित्वेमं दुःखितं जनम् । हीनं पुरुषसिंहेनरामेणाक्लिष्टकर्मणा ॥७॥ योगक्षेमं तु ते राजन कोऽस्मिन् कल्पयिता पुरे । त्वयि प्रयात स्वस्तात रामे च वनमाश्रिते ॥८॥ विधवा पृथिवी राजंस्त्वया हीना न राजते। हीनचन्द्रव रजनी नमरी प्रतिभाति मा ॥९॥ एवं विलपमानं तं भरतं दीनमानसम् । अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥१०॥ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशांपतेः । तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ ११॥ तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । ऋत्विक्पुरोहिताचास्त्विरयामास सर्वशः ॥ १२ ॥ ये त्वग्नयो नरेन्द्रस्य चाम्यगाराबहिष्कृताः। ऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ॥ १३ ॥ शिविकायामथारोप्य
राजानं गतचेतसम् । वाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ १४॥ हिरण्यं च सुवर्ण च वासांसि विविधानि VI च । प्रकिरन्तो जना मार्ग नृपतेरग्रतो ययुः ॥ १५॥
तथेतीति । ऋत्विक्पुरोहिताचार्यान् ऋत्विजो यज्ञकर्मणि वृताः। पुरोहिताः पुरोहितपरत्वेन शान्तिकपौष्टिकादिकियाप्रर्वतकाः । आचार्याः वसिष्ट वामदेवादयः। “त्रय्यां च धर्मकृत्ये च शान्तिकमणि पौष्टिके । अध्वरे यश्च कुशलः स स्याद्राजपुरोहितः ।। उपनीय वदेदेदमाचार्यः स उदाहृतः।" इतिलक्षणम् ॥१२॥ य इति । अध्यगारात अग्निगृहात । बहिष्कृताः अन्तःशववत्त्वात् बहिः प्रतिष्ठापिताः । अग्नयो गार्हपत्यादयः । याजकैः उपद्रष्टुभिः ऋत्विम्भिश्च । आह्रियन्त आनीयन्त ॥ १३॥ १४ ॥ हिरण्यमिति । हिरण्यं च सुवर्ण च रजतं च सुवर्ण च, तत्कृतपुष्पाणीत्यर्थः॥ १५॥ इत्यर्थः ॥ ३-५॥ किमिति । प्रोषिते देशान्तरं गते ॥६॥ ७॥ योगक्षेममिति । स्वः स्वर्गम् ॥ ८-११॥ ऋत्विक्पुरोहिताचार्यान् ऋत्विजो यज्ञकर्मणि वृताः, पुरो हिताः शान्तिपौष्टिकादिक्रियाप्रवर्तकाः, आचार्याः बसिष्ठवामदेवादयः ॥१२॥ ये त्विति । याजकैः उपद्रभिः ॥ १३ ॥१४॥ हिरण्यमिति । हिरण्यं रजतम् ॥१५॥
For Private And Personal Use Only