SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बा.रा.भू. लक्ष्मणवत् सत्यप्रतिज्ञाऽसीत्यर्थः । अतः सतां लोकानवाप्स्यसि ॥ ६१ ॥ ६२ ॥ एवमिति । एवं विलपमानस्य पूर्वोक्तशपथरूपेण विलपतः । शोक ॥२४०॥ ६७ संरोधात् शोककृतसंरोधात् ॥ ६३ ॥ लालप्यमानस्येति । लालप्यमानस्य भृशं प्रलपतः । चिचेतनस्य मूर्च्छितस्य । प्रनष्टबुद्धेः क्षुभितान्तःकरणस्य । ७ धर्मम् उष्णं यथाभवति तथा निश्वसतः ॥ ६४ ॥ इति श्रीगोविन्द० श्रीरामायणभूषण • पीता• अयोध्याकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ एवं विलपमानस्य दुःखार्त्तस्य महात्मनः । मोहाच्च शोकसंरोधाद्वभूव लुलितं मनः ॥ ६३ ॥ लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ । मुहुर्मुहुर्निश्वसतश्च धर्म सा तस्य शोकेन जगाम रात्रिः ॥ ६४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ तमेवं शोकसन्तप्तं भरतं कैकयीसुतम् । उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ १ ॥ अलं शोकेन भद्रं ते राज पुत्र महायशः । प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ २ ॥ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । प्रेत कार्याणि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥ उद्धृतं तैलसंरोधात् स तु भूमौ निवेशितम् । आपीतवर्णवदनं प्रसुप्त मिव भूपतिम् ॥ ४ ॥ संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते । ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ ५॥ तमिति । कैकयीसुतमित्यत्र “केकयमित्रयुप्रलयानां यादेरियः” इति विहितस्येयादेशस्याभावः ॥ १॥ अठमिति । संयानं सम्यग् यानम्, स्वर्गप्रापक कियाजातमित्यर्थः ॥ २ ॥ वसिष्ठस्येति । धारणां गतः धैर्ये प्राप्तः " मर्यादा धारणा स्थितिः" इत्यमरः । स्वस्थान्तःकरण इत्यर्थः । कारयामा सेति संक्षेपोक्तिः ॥ ३ ॥ उद्धृतमित्यादिश्लोकद्वयमेकान्वयम् । ततः स पुत्रः तैलसंरोधात् तैलद्रोण्याः उद्धृतं ततस्तैलापमार्जनाय भूमौ निवेशितम् चिरं तैले स्थापनादापीतवर्णवदनम् अवयवशैथिल्याभावात् प्रसुप्तमिव स्थितं दशरथं भूपतिम् । उक्तविशेषणे शयने संवेश्य शाययित्वा सुदुःखितः सन् प्यसीति सम्बन्धः | ६१ ॥ ६२ ॥ एवमिनि शोकसंरोधात् शोकविरोधात् ॥ ६३ ॥ लालप्यमानस्येति लालप्यमानस्य भृशं विलपतः। विचेतनस्य मूर्च्छतः ॐ प्रनष्टबुद्धेः क्षुभितान्तःकरणस्य ॥ ६४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ ॥ १ ॥ अलमिति । संयानं सम्यग्यानं स्वर्गप्रापकक्रियाजातमित्यर्थः । कारयामासेति संग्रहोक्तिः ॥ २ ॥ वसिष्ठस्पेति । धारणां गतः स्थितिं प्राप्तः स्वस्थान्तःकरण For Private And Personal Use Only टी.अ. को स० ७६ ॥२४०॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy