________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पद्यत ॥५३॥ पानीयेति । पानीयदूषके विषदायके च यत्पापं तत् द्वयम् एको लभतामित्यर्थः॥५४॥ब्राह्मणायेति । बालबत्साम् अनिर्दशाम् ॥५५॥ तृष्णामिति । पानीये सति गृहे विद्यमाने सति । विप्रलम्भेन वञ्चनया यो योजयेत् न ददातीत्यर्थः । तस्य यत्पापं तल्लभेत ॥५६॥ भक्त्येति ।
पानीयदृषके पापं तथैव विषदायके । यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥५४॥ ब्राह्मणायोद्यतां पूजा विहन्तु कलुषेन्द्रियः। बालवत्सां च गांदोग्धु यस्यार्योऽनुमते गतः ॥ ५५॥ तृष्णात सति पानीये विप्रलम्भेन योनयेत् । लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः ॥५६॥ भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः॥५७॥ विहीनां पतिपुत्राभ्यां कौसल्या पार्थिवात्मजः। एवमाश्वासयन्नेव दुःखातों निपपात ह॥५८॥ तथा तु शपयैः कष्टःशपमानमचेतनम् । भरवं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् ॥५९॥ मम दुःखमिदं पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥६०॥ दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः । वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि ॥ ६१ ॥ इत्युक्त्वा चाङ्कमानीय
भरतं भ्रातृवत्सलम्। परिष्वज्य महाबाहुं सरोद भृशदुःखिता ॥ ६२॥ विवदमानेषु वादिप्रतिवादिषु विवादं कुर्वत्सु । भक्त्या एकस्मिन् स्रहेन । मागे जयोपायमाश्रित्य पश्यतः ब्रुवतस्तस्य पापेन युज्यतेति सम्बन्धः। Neln५७-५९ ॥ ममेति । उपरुणसि पीडपसीत्यर्थः । यदा प्राणानुपरुणसि रामवियोगेन मे निर्गच्छतःप्राणान् स्थापयसि, शपथकरणेन ममाश्वासो Mजात इत्यर्थः ॥ ६०॥ दिष्टचेति । दिष्टया भाग्येन । आत्मा अन्तःकरणम् । धर्मात् ज्येष्ठानुवर्तनधर्मात् । मे मह्यम् । सहलक्ष्मणः सत्यप्रतिज्ञोसि । Mबालबत्साम् अनिर्दशामित्यर्थः । “सन्धिस्सनिर्दशावत्सागोपयः परिवर्जयेत्” इति स्मृतेः ॥ ५५ ॥ ५६ ।। अयं परस्त्वयं नेति विवदमानेषु बादिप्रतिवादिषु विवादं कुर्वत्सु सत्तु भक्त्या एकस्मिन् स्नेहेन । मार्ग जयोपायमाश्रित्य पश्यतः तूष्णीम्भवतः। जयोपायं ज्ञात्वापि पक्षपातेन तूष्णीम्भवत इत्यर्थः । तस्य पापेन युज्यतेति सम्बन्धः । अस्मिन् शपथप्रकरणे श्लोकानां पूर्वोत्तरव्यत्यासः पुनरुक्तिश्च दृश्यते, तत् शपथविषयत्वान्न दोषः ॥ ५७-५९ ॥ भमेति । इदं तव शपथ वायजातम, श्रुत्वेति शेषः । किन उपरुणसि पीडयसि ॥ ६०॥ दिष्टेचेति । दिष्टचा भाग्येन सहलक्ष्मणः ते आत्मा स्वभावः धर्मात ज्येष्ठानुवर्तनरूपधर्मात् न चलितः। मे सत्ये प्रतिज्ञः मह्यं कृतयथार्थशब्दपथस्सन सतां लोकानवाप्स्यसीति सम्बन्धः । यद्वा सत्यप्रतिज्ञः मे मम सत्यं शंसमानः त्वं सतां लोकानवा
For Private And Personal Use Only