SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandie चा.रा.भ. टो.अ.का. प्राणनम् । पितॄणां तु उपरागादिषु मातापितृमरणतिथ्यादिषु च पूर्वोक्तैरन्यैश्च तिलादिभिराराधनम् । पितृशुश्रूपयैव मृतमातापितृशुश्रूषाग्रहणसम्भ। वात् । मातापित्रोरित्यत्र जीवतोरिति विवक्षितम् ॥ ४५ ॥ सतामिति । सतां कीात् सद्भिः क्रियमाणश्लाघनात् । सञ्जष्टात् सत्सेवितात् ॥४६॥ सतां लोकात्सतां कीात् सञ्जष्टात् कर्मणस्तथा । भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः॥४६॥ अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुमहावक्षायस्यार्योऽनुमते गतः॥४७॥ बहुपुत्रो दरिद्रश्च ज्वररोगसम न्वितः । सभूयात् सततं क्लेशी यस्यार्योऽनुमते गतः॥४८॥ आशामाशंसमानानां दीनानामूर्खचक्षुषाम् । अर्थिनां वितां कुर्याद्यस्यार्योऽनुमते गतः ॥४९॥ मायया रमतां नित्यं परुषः पिशुनोऽशुचिः । राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥५०॥ ऋतुस्नातां सती भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥५१॥ धर्मदारान् परित्यज्य परदारानिषेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ ५२ ॥ विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ ५३ ॥ अपास्पेति । पुनर्मातृशुश्रूषाग्रहणं तत्त्यागे प्रत्यवायभूयस्तया तन्नित्यतया च । मातृशुश्रूषा हि नित्या, यतस्तस्यां पतितायामपि शुश्रूषां विदधति स्मृतयः । अनर्थे अधर्मे ॥ १७॥ बहुपुत्र इति । बहुपुत्रस्यापि धनिनो दुःखाभावात् । अपुत्रस्य दारिद्येऽपि भरणीयाल्पतया केशाल्पतेति च विशेषण दयम् ॥ ४८॥ आशामिति । आशंसमानानां स्तुवताम् । ऊर्चचक्षुषाम् उन्नतासनस्थदातृमुखनिरीक्षकाणाम् अर्थिनाम् आशां वितयां कुर्यात् । ॥४९॥ माययेति । मायया वञ्चनया । रमतां सक्तो भवतु ।। ५.॥ऋतुस्रातामिति । ऋतुकालानुरोधिनीम् ऋतुस्नानदिवसे स्वसंनिहिताम् ॥५१॥ धर्मदारानिति । निषेवतां भजताम् ॥५२ ॥ विप्रलुप्तप्रजातस्येति । विप्रलुप्तप्रनातस्य नष्टापत्यस्य सन्ततिहीनस्वेत्यर्थः । तदेव दुष्कृतं प्रति । मतामिति । सत्रुष्टात् क्रियमाणादित्यर्थः ॥ ४६-४८ ॥ आशामिति । आँधनामाशां वितयां कुर्यादिति सम्बन्धः ॥४९॥ मायया वचनया ॥ ५०-५२ ॥ विप्रलुप्त प्रजातस्य अनपानाद्यप्रदानेन प्रनष्टसन्तानस्येत्यर्थः। विच्छिन्नसन्तानस्येति वा। यदा विप्रलुता विवर्जिता प्रजाता प्रस्ता जातापत्या जाया येन तस्य ॥५३॥५४॥ ॥३२॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy