________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकरणं विना ब्रह्मचर्यादेव संन्यासः प्रतिषिद्धयते । अरक्तविषयमिदमितिचेन्नः ब्रह्मचर्यादेव प्रत्रवेदित्यादेदाराला भविषयत्वात् । तत्रैवहि इतरथेत्यने नायमथ दर्शितः ॥ ३५ ॥ राजस्त्रीत्यत्रापि यस्यार्योऽनुमते गत इत्यनुपञ्जनीयम् ॥ ३६ ॥ प्रक्षयेति । भृत्यान् भरणीयान् । लाक्षादिविक्रयलब्ध राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते । भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ३६ ॥ लाक्षया मधुमांसेन लोहेन च विषेण च । सदैव विभृयादभृत्यान् यस्यार्योऽनुमते गतः ॥ ३७ ॥ सङ्ग्रामे समुपोढे स्म शत्रुपक्षभयंकरे । पलायमानो वध्येत यस्यार्योऽनुमते गतः ॥ ३८ ॥ कपालपाणिः पृथिवीमटतां चीरसंवृतः । भिक्षमाणो यथोन्मत्तो यस्यार्योनुमते गतः ॥ ३९ ॥ पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । कामक्रोधाभिभूतस्तु यस्यार्योनुमते गतः ॥ ४० ॥ मास्म धर्मे मनो भूयादधर्मे सुनिषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ ४१ ॥ सञ्चि तान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्तां यस्यायनुमते गतः ॥ ४२ ॥ उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते । तच्च पापं भवेत्तस्य यस्यार्थोनुमते गतः ॥ ४३ ॥ यदग्रिदाय के पापं यत्पापं गुरुतल्पगे । मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ ४४ ॥ देवतानां पितॄणां च मातापित्रोस्तथैव च। मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥ ४५ ॥
द्रव्येण विभृयाद्रक्षेदित्यर्थः । "लाक्षालवणमांसानि वर्जनीयानि विक्रये" इतिस्मृतेः । 'अप्यकार्यशतं कृत्वा' इत्यस्यापवादोऽयम् ॥ ३७॥ सङ्ग्राम इति । समुपोढे निकटे "उपोढो निकटोढयोः” इति वैजयन्ती ॥ ३८ ॥ कपालपाणिरिति । अटतां चरतु । चीरं मलिनं जीर्णवस्त्रम् । अनेन शैवमतप्रवेशो १) निन्द्यते ॥ ३९ ॥ पाने प्रसक्त इति स्पष्टम् ॥४०॥ मा स्मेति । अपात्रवर्षी अपात्रे बहुदायी ॥४१॥ सञ्चितानीति । दस्युभिः तस्करैः ॥ ४२ ॥ उभे इति । उभयोः संध्ययोः ॥४३॥ यदिति । गुरुतल्पगे गुरुदारगे ||४४ || देवतानामिति । देवानां शुश्रूषा अग्निहोत्रादिकर्म सम्भृतैराज्यचरुपशुपुरोडाशादिभिः धर्म्याः धर्मादनपेताः क्रियाः अनवाप्य प्रमीयतां म्रियताम् ॥ ३४-३६ ॥ लाक्षयेति । भर्तृन भरणीयान्न विभृयात लाक्षादिविक्रयलब्धद्रव्येण रक्षेदित्यर्थः । " लाक्षालवणमांसानि वर्जनीयानि विक्रये " इति स्मृतेः ॥ ३७ ॥ सङ्ग्राम इति । समुपोढे निकटे ।। ३८-४२ ।। उभे सन्ध्ये उभयोः सन्ध्ययोः ॥ ४३-४५ ॥
For Private And Personal Use Only