________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
.रा. भू तयोरिति । आततराः । भासनिति शेषः ॥१९॥ तत इति । विश्रान्तो विशेषेण श्रान्ती । व्यचेष्टेता व्यलुण्ठेताम् ॥ २० ॥ तत इति टी.अ.का. ४३॥७/प्रकृतिमान् प्रशस्तस्वभावः । “ प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे " इति वैजयन्ती । वैद्यः विद्या तत्त्वज्ञानहेतुभूतां वेदान्तविद्या वेदेति
हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।अयोध्यांन प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ १८॥ तयो विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् । भृशमार्त्ततरा भूयः सर्व एवानुगामिनः ॥१९॥ ततो विषण्णौ विश्रान्तौ शत्रुघ्नभरतावुभौ। धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ ॥२०॥ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः । वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह॥२१॥ त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो । सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥२२॥ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः। तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥२३॥ वैद्यः वेदान्तविद्याधिगतपरावरतत्त्वयाथात्म्यविज्ञानः, सर्वज्ञ इति यावत् । “तदधीते तद्वेद" इत्यण् । " सर्वज्ञभिषजो वेद्यो" इत्यमरः । एषा। मितिबहुवचननिर्देशो बुद्धिस्थरामाद्यपेक्षया । पितुर्दशरथस्य ॥२१॥ त्रयोदश इति । वृत्तस्य संस्कृतस्य । त्रयोदशोऽयं दिवसः । सावशेषास्थि निचये अस्थिसञ्चयनाख्ये कर्मण्यवशिष्ट इत्यर्थः ।दशाहमध्ये शास्त्रविहितं प्रधानावयवास्थिसञ्चयनं कृतम्, त्रयोदशे दिवसे तद्देशीयशिष्टाचारप्राप्तस्थल शोधनमा कृतमिति न स्मृत्रिविरोध इत्यप्याहुः । स्मृतिश्चास्माभिर्दर्शितैव ॥ २२ ॥ त्रीणीति । अशनायापिपासे शोकमोहो जरामृत्यू इत्युक्तानि त्रीणि द्वन्द्वानि । भूतेषु जन्तुषु । अविशेषतः प्रवृत्तानि तेषु चापरिहार्येषु प्राप्तेषु । त्वमेवं भवितुं नाहसि अज्ञवन्मोहेन प्रलपितुं नाईसि ॥२३॥ पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते न भिद्यते सा अवदारणकाले तु प्रलयकाले आगतेपि नावदीर्यत इत्यन्वयः ॥ १६-१८॥ तयोरिति । आर्ततरा अभ वन्निति शेषः ॥ १९ ॥ तत इति । विषण्णौ श्रान्तौ चेति पाठः । विषण्णौ विश्रान्ताविति पाठे-विशेषेण श्रान्तावित्यर्थः ॥ २०॥ तत इति । प्रकृतिमान प्रशस्तस्व भावः । वैद्यः सर्वज्ञः॥ २१ ॥ त्रयोदश इति । वृत्तस्य संस्कृतस्य । सावशेषास्थिनिचय इत्यभिधानात् दशाहमध्ये शास्त्रविहितं प्रधानास्थिसञ्चयनं कृत्वा त्रयोदश
KOI॥२४॥ दिवसे तद्देशीयाचारप्राप्तस्थलशोधनमात्र कृतमित्यवमम्यते । प्रयोदशेऽहन्यस्थिसञ्चयनं कर्तव्यमिति स्मृतेरपि न विरोध इत्यवगन्तव्यम् ॥ २२ ॥ त्रीणि द्वन्द्वान नीति । त्रीणि द्वन्द्वानि " अशनायापिपासे च शोकमोही जरामृती" इत्युक्तप्रकारेण । त्रीणि द्वन्द्वानि जन्ममरणेसुखदुःखे लाभालाभे । एवं भवितुं शोचितुम्॥२३॥
S
For Private And Personal Use Only