________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
येत्युक्तम् || २१|| कारयित्वेति । यो भर्त्ता भृत्यं महत्कर्म कारयित्वा । "कोरन्यतरस्याम्" इतिद्विकर्मकत्वम् । अनर्थकं तं प्रयोजनशून्यं करोतीति शेषः । अस्य भर्तुः यः अधर्मः सोऽस्तु ॥ २२ ॥ परिपालयमानस्येति । परिपालयमानस्य राज्ञः । राज्ञि परिपालपति सति । तं प्रति द्रुह्यतां पापम् । कारयित्वा महत्कर्म भर्त्ता भृत्यमनर्थकम्। अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ २२॥ परिपालयमा नस्य राज्ञो भूतानि पुत्रवत् । ततस्तं दुह्यतां पापं यस्यायनुमते गतः ॥ २३ ॥ वलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः । अधर्मो योऽस्य सोस्यास्तु यस्यार्योऽनुमते गतः ॥ २४ ॥ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् । तां विप्रलपतां पापं यस्यार्थोऽनुमते गतः॥ २५ ॥ हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले। मा स्म कार्षीत्सतां धर्मं यस्या र्योऽनुमते गतः ॥२६॥ उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता । स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥२७॥ मा च तं व्यूढबाहंसं चन्द्रार्कसमतेजसम् । द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमते गतः ॥ २८ ॥
ततः तस्य ॥ २३ ॥ बलिषड्भागमिति । बलिषड्भागं बलिः करः " बलिः पूजोपहारे च दैत्यभेदे करेsपि च" इति वैजयन्ती । षष्ठो भागः षड्भागः बलिश्वासौ षड्भागश्चेति विशेषणसमासः । उद्धृत्य आदाय ॥ २४ ॥ ॥ संश्रुत्येति । सत्रे यागे तपस्विभ्यः व्रतोपवासशीलेभ्यः ऋत्विग्भ्यः यज्ञ दक्षिणां संश्रुत्य प्रतिज्ञाय तां दक्षिणां विप्रलपतां विरुद्धोत्तत्या अपलपताम् ||२५|| हस्त्यश्वरथसम्बाध इति । सतां शूराणां धर्मम् अपरावर्त्तनम् । मास्म कार्षीत् परावर्त्तमानस्य यत्पापं तदस्त्वित्यर्थः ॥ २६ ॥ उपदिष्टमिति । धीमता गुरुणा यत्नेनोपदिष्टं सुसूक्ष्मार्थे परलोकसाधकर हस्यार्थयुक्तं शास्त्रं वेदान्तादिविशिष्टार्थं नाशयतु विस्मरतु ॥ २७॥ मेति । व्यूढवास व्यूटी संहतौ मांसलो बाहू अंसौ च यस्य तम् “व्यूढौ विन्यस्तसंहृतौ” इत्यमरः । राज्य स्थं कारयित्वेति । यो भर्ता मृत्यं महत्कर्म कारयित्वा तम् अनर्थकम् अर्थशून्यम्, भृतिविरहिनमिति यावत् । करोतीति शेषः । अस्य भर्तुः यो वा अधर्मः सः यस्यानुमते आर्यो गतः तस्यास्त्विति सम्बन्धः ॥ २२ ॥ परिपालयेति । परिपालयमानस्य पुत्रवद्भूतानि परिपालयति सति राज्ञि । तट्टह्यतां तस्मै दुह्यतां द्रोहं कुर्वतां यत्पापं तत्तस्यास्तु ॥ २३ ॥ बलीति । बलिषइभागं बलिः करः, षष्ठः भागः षद्भागः, बलिश्वासौ षइभागश्चेति विशेषणसमासः । उद्धृत्य आदाय || २४ | संश्रुत्येति । तपस्त्रिभ्यः ऋत्विग्भ्यः । यज्ञदक्षिणां यज्ञकारयितृऋत्विग्दक्षिणामित्यर्थः । तां दक्षिणां विप्रलपताम् अपलपताम् ||२५|| हस्त्यश्वेति । सतां धर्मम् उत्तम क्षत्रियाणामपलायनेन युद्धकरणम् ॥ २६ ॥ उपदिष्टमिति सुसूक्ष्मार्थ परलोकसाधन रहस्यार्थे वेदान्तादिविशिष्टशास्त्रम् । नाशयतु विस्मरतु ॥ २७ ॥ मा चेति
For Private And Personal Use Only