________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsun Gyarmandir
वा.रा.भू
पूर्वमेव भ्रातृपितृवियोगखिन्नोऽपि कौसल्यावाक्यश्रवणखिन्न इत्यर्थः ॥१६॥ पपातेति । चरणी प्रतीति शेषः। बहुधासज्ञ इत्यत्र असंज्ञ इति पदच्छेदः टी.अ.कां. ॥ १७॥ एवमिति । एवं विलपमानां पूर्वोक्तप्रकारेण विलपन्तीम् ॥ १८॥ आर्य इति । अजानन्तम्, अभिषेकादिकमिति शेषः ॥ १९॥ कौसल्यया । पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्ततः स्थितः ॥ १७॥ एवं विलपमानां तां भरतः प्राञ्जलिस्तदा। कौसल्या प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ १८॥ आर्ये कस्मादजानन्तं गर्हसे मा मकिल्बिषम्। विपुलां च मम प्रीति स्थिरां जानासि राघवे ॥ १९॥ कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन । सत्यसन्धः सता श्रेष्ठो यस्यायोंऽनुमते गतः ॥२०॥प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु । हन्तु पादेन
गां सुप्तां यस्यायोंऽनुमते गतः ॥२१॥ स्वस्मिन्नारोपितं दोपं परिहतु शपथवाक्यान्याह-कृतेत्यादिना । आर्यः रामः यस्यानुमते सम्मतो सत्यां गतः तस्य शास्त्रानुगा कृता बुद्धिः गुरुणा विधिनिषेधबोधकशास्त्रानुसारित्वेन सुशिक्षिता बुद्धिः कदाचन माभूदिति सम्बन्धः । यद्यहमार्यप्रवासने अनुमन्तास्मि तर्हि श्रुतिस्मृतिज्ञानात् प्रच्युतो भूयासमित्यर्थः । एवमुत्तरत्रापि सामान्यनिर्देशो भरतविषयतया योजनीयः, “निर्विशेषन सामान्यम्" इतिन्यायात् । अत्र शपथव्याजेन धर्मविशेषाश्च शिक्ष्यन्ते मुनिनेति बोध्यम् । अत्र च सत्पुरुषविषवापराचे शास्त्रज्ञानभ्रंशो भवतीति सूचितम्॥२०॥प्रेष्यमिति । प्रेष्यं प्रेष्यभावम् । पापीयसाम् अति | शयेन पापिनाम् । हीनजातीनां प्रेष्यत्वं हि पापहेतुः । सूर्य प्रति मेहतु मूत्रपुरीपोत्सगै करोतु मूर्याभिमुखेन मेहने यत्पापं तत् प्राप्नोत्वित्यर्थः । अनेन सूर्यप्रति मेहनं न कर्त्तव्यमिति सिद्धम् । गां पादेन हन्तु पादेन गोहननपापंप्रामोतु। पादेन गोहननं दोषः। सुप्तामित्यनेन स्वहननप्रवृत्तगोहननं न दोषा आर्येति । अजानन्तम, अभिषेकमिति शेषः ॥१९॥ कौसल्यया स्वस्मिन्नारोपितं दोष परिहर्तु शपथवाक्यान्याह-कृता शास्त्रानुगेत्यादिना । आर्यः रामः यस्यानु मते यस्य सम्मतो सत्यां गतः, अरण्यमिति शेषः । तस्य शाखानुगा बुद्धिः गुरुणा विधिनिषेधबोधशास्त्रानुसारित्वेन सुशिक्षिता बुद्धिः कदाचन माभूदिति ॥२३॥ सम्बन्धः । आर्यस्य गमनं ममानुमतं चेदहं मूर्यो भवानीत्यर्थः । सामान्येन शपथकरणं "निविशेष न सामान्यम्" इतिन्यायेन स्वस्मिन्नपि पर्यवस्यतीत्यभिप्रायः ॥ २०॥ प्रेष्यमिति । प्रेष्यं प्रेयभावम् । पापीयसाम अतिशयेन पापिनाम् । सूर्य च प्रति मेहतु सूर्याभिमुख मूत्रयतु ॥ २१ ॥
For Private And Personal Use Only