SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कथं राज्यं प्राप्तं तबाह-सम्प्राप्तमिति । क्रूरेण रामविवासनपूर्वकेण । कर्मणा वराभ्यर्थनेन ॥१०॥ प्रस्थाप्यति । तत्र प्रस्थापने । कं गुणम् अतिशयं । पश्यति न कमपि गुणम्, रामप्रस्थापनं विनापि राज्यलाभसम्भवात् ॥११॥ क्षिप्रामिति । कैकेयी मामपि प्रस्थापयितुमर्हति सर्वस्य राज्यस्य तदाय भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ॥९॥ इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् । सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥१०॥ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् । कैकेयी के गुणं तत्र पश्यति क्रूरदर्शिनी ॥११॥ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति । हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥१२॥ अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् । अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ॥ १३॥ कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि । यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ॥ १४ ॥ इदं हि तव विस्तीर्ण धन धान्यसमाचितम् । हस्त्यश्वरथसम्पूर्ण राज्यं निर्यातितं तया ॥१५॥ इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भत्सितो ऽनघः । विव्यथे भरतस्तीवं व्रणे तुद्येव मूचिना ॥ १६ ॥ तत्वादिति भावः । हिरण्यनाभः हिरण्यवत्स्पृहणीयनाभियुक्तः । नाभिग्रहणं शरीरस्योपलक्षणम् ॥ १२॥कैकेयीकृतपापानुबन्धिनस्तव राजसंस्कारा धिकारो नास्तीति ध्वनयन्त्याह-अथवेति । अग्निहोत्रं राजाग्निहोत्रम् । अग्निहोत्रस्य ज्येष्ठभार्याधीनत्वात् दशरथेन भरतसंस्कारप्रतिषेधाचेति भावः एतेन राजशरीरप्रापणमप्यर्थसिद्धम् ॥ १३ ॥ काममिति । तपस्तप्यते तपः करोतीत्यर्थः । "तपस्तपःकर्मकस्यैव " इति कर्मवद्भावादात्मने पदम् ॥१४॥ तव प्रस्थापने मम का शक्तिस्तत्राह-इदमिति । धनधान्यसमाचितं धनधान्यसम्पूर्णम् । तया कैकेय्या । निर्यातितं दापितम् । “निर्यातनं वरशुद्धौ दाने न्यासार्पणे मतम्" इति विश्वः ॥ १५॥ इत्यदिबहुभिरिति । सम्भत्सितः परपक्षबुद्धया भाषितः । व्रणे भूचिना तुद्येव व्यथयित्वेव । इति । दीर्घदर्शिनं भाविकार्याकार्यपर्यालोचन शीलम् ॥५-९॥ अकण्टकं निस्सपत्नम् । राज्यप्राप्तिप्रकारमाह-संप्राप्तमिति । क्रूरण कर्मणा रामविवासनत्वद भिषेचनप्रार्थनारूपेण कर्मणा ॥ १० ॥ ११ ॥ क्षिप्रमिति । हिरण्यनाभः हिरण्यवत्स्पृहणीयनाभियुक्तः । नाभिग्रहणं शरीरस्योपलक्षणम् ॥ १२ ॥ कैकेयीकृतपापानु पाबन्धेन तव राजसंस्कारे अधिकारो नास्तीति ध्वनयन्त्याह-अथवेति । अग्निहोत्रं पुरस्कृत्येत्येतद्राजदेहस्याप्युपलक्षणम् ॥ १३ ॥ काममिति । तपस्तप्यति तपः करोतीत्यर्थः ॥ १४ ॥ इदमिति । धनधान्यसमाचितं धनधान्याप्तम् । निर्यातितं दापितम् ॥ १५-१८ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy