________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. ॥२३६॥
टी.अ.कां.
दीर्घकालादिति । दीनांप्रतिहतेच्छत्वात् । अमात्यमध्ये सुमन्त्रादिमध्ये। अनेन भरतागमनं श्रुत्वा सुमन्त्रादयः इतःपूर्वमागता इति गम्यते । अभ्य। कुत्सयत् मन्त्रिणां ज्ञापनाय पुनरप्यनिन्ददित्यर्थः ॥३॥ कैकेय्या कृतं स्वेष्टं नेति मन्त्रिभ्यो ज्ञापयति-राज्यमिति । जादु कदाचिदपि । एतत् न कामये
दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्रीक्ष्य मातरम् । सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत् ॥ १॥राज्यं न कामये जातु मन्त्रये नापि मातरम् । अभिषेकं न जानामि योऽभू द्राज्ञा समीक्षितः । विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम् ॥२॥ वनवासं न जानामि रामस्याहं महात्मनः । विवासनं वा सौमित्रेः सीतायाश्च यथाभवत् ॥ ३॥ तथैव क्रोशतस्तस्य भरतस्य महात्मनः । कौसल्या शब्द माज्ञाय सुमित्रामिदमब्रवीत् ॥४॥ आगतः ऋरकार्यायाः कैकेय्या भरतः सुतः । तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥५॥ एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा । प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥६॥स तु रामानुजश्चापि शत्रुघ्नसहिस्तदा । प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥७॥ ततः शत्रुघ्नभरतौ कौसल्यां
प्रेक्ष्य दुःखितौ । पर्यष्वजेता दुःखातौ पतितां नष्टचेतनाम् ।रुदन्तौरुदती दुःखात् समेत्यार्या मनस्विनीम् ॥८॥ नमन्त्रये इत्युभयत्रापि सम्बध्यते । मन्त्रये राज्यार्थमितिशेषः। मन्त्रणं विचारः न जानामि मदनुज्ञापूर्वकोऽयं न भवतीत्यर्थः । यो मदर्थोभिषेकः राज्ञा समीक्षितश्चिन्तितः अभूत् तमभिषेकं न जानामि । अज्ञाने हेतुमाह विप्रकृष्ट इति ॥२॥ वनवासमिति । विवासनं वेत्यत्र न जानामीत्यनुकर्षः ॥३॥४॥ आगत इति । दीर्षदर्शिनमित्यनेन रामनिर्गमनं भरतो न संमन्यत इति कौसल्याहृदयमिति सूचितम् ॥ ५॥ एवमिति । भरतो यत्र स्थितः तत्र प्रतस्थे ॥ ६॥ स इति । यत्र कौसल्याया निवेशनं स्थितं तत्र प्रतस्थे॥७॥ तत इत्यादि । आर्या ज्येष्ठां मातरम् ॥८॥९॥ दीर्घकालादित्यादिसार्धश्लोकमेकं वाक्यम् । अभ्यकुत्सयत अगइयत् । अत्र उपरि गाया अश्रवणेपि अभ्यकुत्सयदित्यनुवादात् पूर्वपद्दहितवानित्यवगम्यते । अमात्यमध्य इत्यभिधानात भरतागमनं श्रुत्वा समागता मन्त्रिणः भरतमूच्छानन्तरमन्तःप्रविष्टा इत्यवगम्यते ॥ १ ॥राज्यमिति । मातरं न मन्वये छद्मना राज्यग्रहणार्थ मातरं न प्रेरयामीत्यर्थः। राज्ञा मदर्थे योऽभिषेकः समीक्षितोऽभूत तमभिषेकं न जानामीति सम्बन्धः । अपरिज्ञाने हेतुमाह विप्रकृष्ट इत्यादि ॥२-४॥ आगत
॥२३॥
For Private And Personal Use Only