________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अपचितिं पूजाम् “पूजा नमस्यापचितिः" इत्यमरः । भ्रातुरपचिति राज्यप्रदानरूपाम् । पितुरिमां सकलामपचितिम् औदेहिकात्मिकाम् ॥३०॥ भ्रातुरपचितिमाह-आनाययित्वेत्यादिना ॥३३॥ नहीति । पापं रामविवामनरूपम् । धारयितुं सोढुम् । अश्रुकण्ठैः गद्गदकण्ठैः ॥३२॥ अस्य पापस्य
अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् । वर्द्धनं यशसश्चापि करिष्यामि न संशयः॥३०॥आनाययित्वा तनयं कौसल्याया महाबलम् । स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ ३१ ॥ नह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम् । शक्तो धारयितुं पौरैरश्रुकण्ठैनिरीक्षितः ॥३२॥ सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् विश। रज्जु बधान वा कण्ठे न हि तेऽन्यत् परायणम् ॥३३॥ अहमप्यवनि प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मषः॥३४॥ इति नाग इवारण्ये तोमराङ्कुशचोदितः। पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः॥३५॥ संरक्तनेत्रः शिथिलाम्बरस्तथा विधूतसर्वाभरणः परंतपः । बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सव
क्षये ॥ ३६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४॥ मरणान्तिकप्रायश्चित्तं विना निवर्तकान्तरं नास्तीत्यभिप्रायेणाह-सेति । सा बुद्धिपूर्वकमहापापकारिणी। कण्ठे रज्जु बधान बद्धा म्रियस्वेत्यर्थः । परायणं गतिः॥३३॥ अहमिति । विप्रवासितकल्मपः अपनीतकिल्विषः॥ ३४ ॥ इतीति । इति संक्रुद्धः। पन्नग इव निःश्वसन आरण्ये अरण्य गते । तोमराङ्कुशचोदितः तोमरेरङ्कुशैश्च विद्धो नाग इव भुवि पपात । भरत इति शेषः ॥३५॥ संरक्तनेत्र इति । शचीपतेः केतुः इन्द्रध्वजः । उत्सव क्षये उत्सवान्ते ॥ ३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ।। ७४0 मित्यर्थः ॥ २७-२९ ॥ अहमिति । अपचितिं पूजाम् । इमां वक्ष्यमाणाम् ॥ ३०॥ तामेवाह-आनाययित्वेति ॥३१॥ नहीति । अश्रुकण्ठैः गद्गदकण्ठंरित्यर्थः ॥ ३२॥ अस्य पापस्य मरणान्तिकमायश्चित्तं विना निवर्तकान्तरं नास्तीत्यभिप्रायेणाह-सेति । सा बद्धिपूर्वकमहापापकारिणी ॥ ३३ ॥ अहमिति । अवनि राज्यम् । विप्र ) वासितकल्मषः अवसितपापः ॥ ३४ ॥ इतीति । सकद्धः पन्नग इव निश्वसन अरण्ये अरण्यसम्बन्धिनि गर्ने । तोमराङ्कुशचोदितः तोमरैरङ्कुशेश्च विद्धो नाग इव भुषि पपात । भरत इति शेषः । आरण्यो नाग इति वा पाठः ॥३५॥ संरक्तेति । शचीपतेः केतुः इन्द्रध्वजः । उत्सवक्षये उत्सवान्ते ॥ ३६॥ इति श्रीमहेश्वरतीर्थ विरचिताय श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चतुःसप्ततितमः सर्गः ॥ ७ ॥
For Private And Personal Use Only