SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खा.रा.भू. - नरकम् । निरयगामिनीति सिद्धवत्कारात् । किमिति क्षेपोक्तत्या पूर्वसृष्टा अपर्याप्ता इत्युच्यते। विशेषणद्वयं सम्बोधनम् ॥३२॥ किमिनि । बन्धुसंयं ४२.३४ ।। ॐ बन्धूनामाश्रयभूतम् । कौसल्याया आत्मसम्भवमित्यत्र कौसल्यायात्मसम्भवमित्यार्षः सन्धिः । यद्वा पृषोदरादित्वेन आकारलोपः । “गूढोत्मा न प्रका किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् । ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् ॥ १३ ॥ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते । तस्मात्प्रियतमो मातुः प्रियत्वान्न तु बान्धवः ॥ १४ ॥ अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता । वहमानौ ददर्शान्यां पुत्रौ विगतचेतसौ ॥ १५ ॥ शते " इतिवत् । तेन सम्यक्सन्धिः । नियतं किंनावबुध्यसे । प्राकृतवत् बन्धुविघातकमवगतासीति भावः ॥ १३ ॥ औरसपुत्रविश्लेषो मातुरसह्य इति दर्शयितुमङ्गादङ्गादितिश्रुत्यर्थं हृदि निधायाह-अङ्केति । अङ्गानि मुखकण्ठवक्षः कुक्षिहस्तपादाः । प्रत्यङ्गानि नेत्रनासाङ्गुल्यादीनि तज्जः तत्तेजोजः "अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि" इति श्रुतावपि वीप्सयाङ्गप्रत्यङ्गमः । अङ्गप्रत्यङ्गजत्वं च सर्वाङ्गतेजस्सम्भूतत्वम् “यदेतदेतस्तदेतत्सर्वेभ्योङ्गेभ्यस्तेजः सम्भूतम्” इति श्रुतेः । स्त्रियास्तु शोणितमेव रेतः । हृद्यात् हृदयपुण्डरीकात् । प्रत्यगात्मस्थानाच्च जायते तस्मात्पुत्रो मातुः प्रियतमो भवति । बान्धवो भ्रात्रादिः न प्रियतमः किन्तु प्रिय एव । एवमतिशयप्रियत्वात्पुत्रस्य तद्वियोगादिदुःखं दुस्सहमिति भावः । सुरभिर्बन्धुमात्रे दुःखितवती किंपुनः पुत्रे कौसल्येति सूचयति नतु बान्धव इति ॥१४॥ पुत्रशोको मातुर्दुस्सह इत्यत्रेतिहासं प्रमाणयति - अन्य देत्यादिना । अन्यदा पूर्वकाले । किलेत्यैतिह्ये, तथा वदन्ति किलेत्यर्थः । धर्मज्ञा कर्षणकालधर्मज्ञा । सुरभिः कामधेनुः सुरसम्मता देवपूजिता । वहमानौ हलमितिशेषः । विगतचेतसौ मूच्छितावित्यर्थः । पुत्रौ साक्षात्पुत्रौ किञ्चिन्निमित्तवशात् भूमिङ्गतौ । यद्वा पुत्रौ स्ववंश्यत्वेन पुत्रव्यपदेश्यौ ॥ १५ ॥ बन्धुसंश्रयम् । बन्धूनामाश्रयं कौसल्याया आत्मसम्भवमित्यत्र सन्धिरार्षः ॥ १३ ॥ औरसपुत्रविश्लेषो मातुरसह्यतर इति दर्शयितुम् “अङ्गादङ्गात् " इति श्रुत्यर्थं हृदि निधायाह-अङ्गप्रत्यङ्गज इति । अङ्गानि करचरणादीनि प्रत्यङ्गान्यङ्गुल्यादीनि तेभ्यो जायत इति अङ्गप्रत्यङ्गजः । हृदयाच्चापि जायते अनुरागस्थानभूत हृदय प्रदेशाच्चापि जायते, तस्मादौरसत्वात्पुत्रो मातुः प्रियतमः । प्रियत्वादेव न बान्धवः बन्धुभूतदत्तपुत्रादिवन भवतीत्यर्थः ॥ १४ ॥ पुत्रपीडनमपि दुस्सहदुःख कारणमिति दर्शयितुमितिहासमाह - अन्यदेत्यादिना । सुरभिः कामधेनुः । पुत्रौ स्ववंशत्वेन पुत्रत्वेन व्यपदेशः ॥ १५ ॥ For Private And Personal Use Only टी.अ. को स० ७५ ॥२३४॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy