________________
Acharya Shri Kalassagarsur Gyarmandir
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
राज्यमितिभावः॥५॥ त्वत्कृत इति । अयशः मातृमुखन ज्येष्ठं विवास्य राजानं नाशितवानित्येवंविधम् । प्रतिपादितः प्रापितः ॥ ६॥ मातृरूप इति । राज्य कामुक इति अमैथुनेच्छातो न छी । न तेऽहमभिभाष्य इति "कृत्यानां कर्तरिवा" इति षष्ठी। मत्सम्भाषणं त्वयान कर्तव्यमित्यर्थः॥७॥कोसल्पेलि।
त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः। अयशो जीवलोके च त्वयाहं प्रतिपादितः ॥६॥ मातृरूपे ममामित्रे नृशंसे राज्यकामुके । न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ॥७॥ कौसल्या च सुमित्रा च याश्चान्या मम मातरः। दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥ ८॥न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः । राक्षसी तत्रजातासि कुलप्रध्वंसिनी पितुः ॥९॥ यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः । वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ॥ १०॥ यत्प्रधानासि तत्पापं मथि पित्रा विना कृते । भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य
चाप्रिये ॥११॥ कौसल्या धर्मसंयुक्तां वियुक्तां पापनिश्चये। कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि ॥१२॥ याश्वान्या इत्यत्र ता इत्यध्याहारः॥८॥ नेति । न त्वमश्वपतेः कन्या तत्कुलोचितकन्या न भवसीत्यर्थः । धर्मराजस्य धर्मप्रधानराजस्य । तत्र केकयराजे ॥ ९॥ उक्तेऽथे हेतुमाइ-यदित्यादिना ॥ १०॥ यत्प्रधानेति । यत् प्रधानं यस्याः सा यत्प्रधाना । यत्पापकर्मप्रधानासि त्वम् । तत् पापं तत्कर्मजनितं पापम् । पित्रा विना कृते भ्रातृभ्यां परित्यक्ते मयि संक्रान्तमिति शेषः । संकान्तकार्य विशेषणद्वयेन दर्शितम् । आप्रिये इति संबुद्धिः ॥११॥ कौसल्यामिति । वियुक्तां गुणवत्पुत्रवियुक्तां कृत्वा निरयगामिनि त्वं कं लोकं प्राप्स्यसे, निरयं विना कं लोकं प्राप्स्यस इत्यर्थः। कं लोकं कं विशेष व्यवस्थापितत्वात् । ममाप्यापादितं भयमित्यपिशब्दात्सर्वजनस्थापीत्यर्थः ॥५॥ त्वत्कृत इति । जीवलोके चेति नकारः परलोकसमुच्चयपरः । प्रति पादितः प्रापित इत्यर्थः ॥ ६-१०॥ यत्प्रधानासीति । यच्छब्देन पापकर्मोच्यते । यत्प्रधानं यस्यास्सा. यत्प्रधाना, यत्पापकर्मप्रधानासि तत्पापं तत्कर्मजनितं पापं पित्रा विना कृते पितरहिते भ्रातृभ्यां च परित्यक्ते अत एव सर्वलोकस्य चाप्रिये सर्वलोकविद्विष्टे मयि, अभूदिति शेषः । त्वं नित्यं पापप्रधाना यत्पापं कृतवती तपितृभ्रातृवियोगरूपेण लोकद्वेषरूपेण च फलितमिति भावः ॥ ११ ॥ कौसल्पामिति । वियुक्ती कृत्वा, पुत्रेणेति शेषः ॥ १२ ॥ स-गिरणगामिनीति बनोप्य के लोक प्राफ्पस इत्युक्त्या त्वत्पापस्य नरकोपि नालमिति सूचयति ।। १२
For Private And Personal Use Only