________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मिति क्रियाविशेषणम् । आभाष्य रामति सम्बोध्य ॥ ३८ ॥ रामस्यैव राज्याभिषेकाईतामभिव्यञ्जयत्राह-ज्येष्ठायामिति । आत्मजस्सुत औरस। स्सुतः॥३९॥ यत इति । पुष्ययोगेनति " प्रकृत्यादिभ्य उपसङ्ख्यानम्" इति तृतीया । पुष्येण चन्द्रमसो योगः पुष्ययोगः । तदुपलक्षितकाल इत्यर्थः। पुष्यनक्षत्रयुक्ते दिवस इत्यर्थः॥४०॥ कामत इति । कामतः प्रकामं गुणवति, त्वयीतिशेषः। यद्यपि भवान् सर्वगुणसम्पन्नस्तथापि पुत्रस्नेहाद्भवते ।
जेष्ठायामसि मे पन्यां सदृश्यां सदृशः सुतः। उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥ ३९ ॥ यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः । तस्मात्त्वं पुप्ययोगेन यौवराज्यमवाप्नुहि ॥४०॥ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि । गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥४१॥ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः । कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ ४२ ॥ परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा । अमात्य
प्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥ ४३ ॥ किश्चिदुपदिशामीत्यर्थः॥४१॥भूय इति। भूयो विनयं सातिशयविनयम् । कामक्रोधसमुत्थानि व्यसनानि "स्त्री द्यूतमृगयामद्यवाक्पारुष्योपदण्डताः। अर्थसन्दूषणं चेति राज्ञां व्यसनसप्तकम् ॥” इत्युक्तानि व्यसनानि । अर्थसन्दूषणं पित्रादिसञ्चितार्थस्य नाशनम् । यदा "मृगयाक्षो दिवास्वापः परिवादः |त्रियो मदः। तौर्यत्रिकं वृथाध्वा च कामजोदशको गुणः॥” इत्येतानि कामजानि “पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाक्दण्डयोश्च पारुष्यं क्रोध जोपि गुणोऽएकः॥" इत्युक्तानि कोधजानि च व्यसनानि ॥४२॥ परोक्षयति । अप्रत्यक्षया वृत्त्या तक्षप्रभृतिकान्तिकानां परोक्षो भूत्वाधिकृतमुखेन यत्का - यणि संविधत्ते सा परोक्षवृत्तिः । अव्यवधानेनामात्यादीन् यया वृत्त्यानुगृह्णाति सा प्रत्यक्षवृत्तिः, ताभ्यां वर्तमानः सन् अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरअयतिसम्बन्धः। यद्वा परोक्षया चारमुखतः परोक्षानुभवसिद्धया वृत्त्या स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव, तथा प्रत्यक्षया नित्यं यथाकाल यत इति । पुष्ययोगेन चन्द्रमसः पुष्यनक्षत्रयोगेनोपलक्षितः॥ ४० ॥ कामत इति । त्वं प्रकृत्या स्वभावत एव कामतः अत्यर्थ गुणवानसि, अतो गुणवति त्वयि न मयोपदेष्टव्यम्, अपि तु स्रहादित्यं वक्ष्यामीति योजना ।। ४१॥ भूय इति । दशरथोपदेशवाक्ये सर्वत्रान्वयः कार्यः कामेति । कामजानि व्यसनानि-खीत मृगयामधुसेवनानि, क्रोधजानि-वाक्पारुष्पदण्डपारुष्यजातानि, त्यजेथाः परिहरेत्यर्थः॥ ४२ ॥ परोक्षयेति । अमात्यादीनां प्रत्यक्षो भूत्वा यत्कार्याणि संविधत्ते ।
For Private And Personal Use Only